चंपका यत्र बहुशः फुल्लकोरकशोभिताः । कुर्वंति कामिनां तत्र हृच्छयार्तिं विलोकिताः
चूताः फलादिभिर्नम्रा मंजरीकोटिसंयुताः । नागाः पुन्नागवृक्षाश्च शालास्तालास्तमालकाः
कोकिलानां समारावा यत्र च श्रुतिगोचराः । सदा मधुपझंकार गतनिद्राः सुमल्लिकाः
दाडिमानां समूहाश्च कर्णिकारैः समन्विताः । केतकीकानकीवन्यवृक्षराजिविराजिताः
तस्मिन्वने प्रमदसंयुतचित्तवृत्तिर्गायन्कलं मधुरवाग्विचिकीर्षयोच्चैः । उद्यत्कुचाभिरभितो वनिताभिरागाच्छोभानिधान वपुरुद्गतभीर्विवेश
काश्चित्तं नृत्यविद्याभिस्तोषयंति स्म शोभनम् । काश्चिद्गानकलाभिश्च काश्चिद्वाक्चतुरोचितैः
भ्रूसंज्ञया पराः काश्चित्तोषयामासुरुन्मदाः । परिरंभणचातुर्यैस्तं हृष्टं विदधुः स्त्रियः
ताभिः पुष्पोच्चयं कृत्वा भूषयामास ताः स्त्रियः । वाण्या कोमलया शंसन्रेमे कामवपुर्धरः
एवं प्रवृत्ते समये राजराजस्य धीमतः । प्रायात्तद्वनदेशं स हयः परमशोभनः
तं स्वर्णपत्ररचितैकललाटदेशं । गंगासमं घुसृणकुंकुम पिंजरांगम् । गत्यासमं पवनवेगतिरस्करिण्या । दृष्ट्वा स्त्रियः परमकौतुकधामदेहम्
ऊचुः पतिं कमलमध्यपिशंगवर्णा -। स्ताम्राधरप्रतिभयाहतविद्रुमाभाः । दंतव्रजप्रमितहास्यसुशोभिवक्त्राः । कामस्य बाणनयनादिविमोहनाभाः
स्त्रिय ऊचुः। कांतकोयं महानर्वास्वर्णपत्रैकशोभितः । कस्य वा भाति शोभाढ्यो गृहाण स्वबलादिमम्
शेष उवाच। तदुक्तं वच आकर्ण्य लीलाललितलोचनः । जग्राह हयमेकेन करपद्मेन लीलया
वाचयित्वा स्वर्णपत्रं स्पष्टवर्णसमन्वितम् । जहास महिलामध्ये जगाद वचनं पुनः
रुक्मांगद उवाच। पृथिव्यां नास्ति मे पित्रा समः शौर्येण च श्रिया । तस्मिन्कथं विधत्ते स उत्सेकं रामभूमिपः
यस्य रक्षां प्रकुरुते सदा रुद्रः पिनाकधृक् । यं देवा दानवा यक्षा नमंति मणिमौलिभिः
कुरुताद्वाजिमेधं वै जनको मे महाबलः । या त्वेष वाजिशालायां बध्नंतु मम वै भटाः
इति वाक्यं समाकर्ण्य महिलास्ता मनोहराः । प्रहर्षवदना जाताः कांतं तु परिरेभिरे
गृहीत्वा च हयं पुत्रो राज्ञो वीरमणेर्महान् । पुरं पत्नीसमायुक्तो महोत्साहमवीविशत्
मृदंगध्वनिषु प्रोच्चैराहतेषु समंततः । बंदिभिः संस्तुतः प्रागात्स्वपितुर्मंदिरं महत्
तस्मै स कथयामास हयं नीतं रघोः पतेः । वाजिमेधाय निर्मुक्तं स्वच्छंदगतिमद्भुतम्
रक्षितं शत्रुसूदेन महाबलसमेतिना । तच्छ्रुत्वा वचनं तस्य नृपो वीरमणिर्महान्
नातिप्रशंसयामास तत्कर्म सुमहामतिः । नीत्वा पुनः समायांतं चौरस्येव विचेष्टितम्
कथयामास जामात्रे शिवायाद्भुतकर्मणे । अर्धांगनाधरायांगभूषाय चंद्रधारिणे
तेन संमंत्रयामास नृपो वीरमणिर्महान् । पुत्रसृष्टं महत्कर्म विनिंद्यं महतां मतः
शिव उवाच। राजन्पुत्रेण भवतः कृतं कर्म महाद्भुतम् । यो जहार महावाहंरामचंद्रस्य धीमतः
अद्य युद्धं महद्भाति सुरासुरविमोहनम् । शत्रुघ्नेन महाराज्ञा वीरकोट्येकरक्षिणा
मया यो ध्रियते स्वांते जिह्वया प्रोच्यते हि यः । तस्य रामस्ययज्ञांगं जहार तव पुत्रकः
परमत्र महाँल्लाभो भविष्यतितरां रणे । यद्रामचरणांभोजं द्रक्ष्यामः स्वीयसेवितम्
अत्र यत्नो महान्कार्यो हयस्य परिरक्षणे । नयिष्यंति बलाद्वाहं मया रक्षितमप्यमुम्