बलिरुवाच- धन्योऽस्मि कृतकृत्योस्मि सफलं मम जीवितम् । त्वामर्च्चयित्वा विप्रेंद्र किं करोमि तव प्रियम्
आगतोऽसि यदर्थं त्वं मामुद्दिश्य द्विजोत्तमः । तत्प्रयच्छामि ते शीघ्रं ब्रूहि वेदविदां वर
शंकर उवाच- ततः प्रहृष्टमनसा तमुवाच महीपतिम् । वामन उवाच- शृणु राजेंद्र वक्ष्यामि ममागमनकारणम्
अग्निकुण्डस्य पृथिवीं देहि दैत्यपते मम । मम त्रिविक्रमपदां नान्यदिच्छामि मानद
सर्वेषामेव दानानां भूमिदानमनुत्तमम् । यो ददाति महीं राजा विप्रायाकिंचनाय वै
अंगुष्ठमात्रामपि वा स भवेत्पृथिवीपतिः । न भूमिदानसदृशं पवित्रमिह विद्यते
भूमिं यः प्रतिगृह्णाति भूमिं यश्च प्रयच्छति । उभौ तौ पुण्यकर्म्माणौ निधने स्वर्गगामिनौ
तस्माद्भूमिं महाराज प्रयच्छ त्रिपदीं मम । एतदल्पां महीं दातुं मा विशंक महीपते । जगत्त्रयप्रदानं तन्नाम भूप भविष्यति
शंकर उवाच- ततः प्रहृष्टवदनस्तथेत्याह महीपतिः । तस्मै महीप्रदानं तु कर्तुं मेने विधानतः
तं दृष्ट्वा दैत्यराजानं तदा तस्य पुरोहितः । उशना ह्यब्रवीद्वाक्यं मा राजन्दीयतां महीम्
शुक्र उवाच- एष विष्णुः परेशोऽथ देवैः संप्रार्थितो नृप । वंचयित्वा महीं सर्वां त्वत्तः प्राप्तुमिहागतः
तस्मान्मही न दातव्या तस्मै राजन्महात्मने । अन्यमर्थं प्रयच्छस्व वचनान्मम भूपते
श्रीशंकर उवाच- ततः प्रहस्य राजासौ तं गुरुं प्राह धैर्य्यतः । बलिरुवाच- प्रीतये वासुदेवस्य सर्वं पुण्यं कृतं मया
अद्य धन्योस्म्यहं विष्णुः स्वयमेवागतो यदि । तस्य प्रदेयमेवाद्य जीवितं च महत्सुखम्
तस्मादस्मै प्रयच्छामि त्रिलोकीमपि मा चिरम् । श्रीशंकर उवाच- इत्युक्त्वा भूपतिस्तस्य पादौ प्रक्षाल्य भक्तितः
वांच्छितां प्रददौ भूमिं वारिपूर्वं विधानतः । परिणीय नमस्कृत्य दत्वा वै दक्षिणां वसु
प्रोवाच तं पुनर्विप्रं प्रहृष्टेनांतरात्मना । बलिरुवाच- धन्योस्मि कृतकृत्योस्मि तव दत्वा महीं द्विज
यथेष्टा तव विप्रेंद्र तद्गृहाण महीमिमाम् । श्रीशंकर उवाच- तमुवाच नृपं विष्णू राजंस्तव समीपतः
मापयामि पदेनाद्य पृथिवीं तव पश्यतः । इत्युक्त्वा खर्वरूपं तद्विहाय परमेश्वरः
त्रिविक्रमवपुर्भूत्वा जग्राह पृथिवीमिमाम् । पंचाशत्कोटिविस्तीर्ण ससमुद्र महीधराम्
ससागरां च सद्वीपां सदेवासुरमानुषाम् । पादेनैकेन वपुषो व्यक्रांत मधुसूदनः
उवाच दैत्यराजेंद्र किं करोमीति शाश्वतः । तद्वै त्रिविक्रमं रूपमीश्वरस्य महौजसम्
हितार्थमपि देवानामृषीणां च महात्मनाम् । न दृष्टमपि शक्यं स्याद्ब्रह्मणः शंकरस्य च
तत्पदं पृथिवीं सर्वामाक्रम्य गिरिजे शुभे । अतिरिक्तं समभवच्छतयोजनमायतम्
दिव्यचक्षुर्ददौ तस्मै दैत्यराज्ञे सनातनः । तस्मै संदर्शयामास स्वकं रूपं जनार्दनम्
तद्विश्वरूपं देवस्य दृष्ट्वा दैत्येश्वरो बलि । प्रहर्षमतुलं लेभे सानंदाश्रु परिप्लुतः
दृष्ट्वा देवं नमस्कृत्य स्तुत्वा स्तुतिभिरेव च । प्राह गद्गदया वाचा प्रहृष्टेनांतरात्मना
बलिरुवाच- धन्योस्मि कृतकृत्योस्मि त्वां दृष्ट्वा परमेश्वरम् । लोकत्रयं त्वमेवैतद्गृहाण परमेश्वर
श्रीशंकर उवाच- अथ सर्वेश्वरो विष्णुर्द्वितीयं पदमव्ययम् । ऊर्ध्वं प्रसारयामास ब्रह्मलोकांतमच्युतः
सनक्षत्रग्रहोपेतं सर्वदेवसमावृतम् । पदेन परिपूर्णोऽभूदच्युतस्य शुभानने