परं रामस्य पादाब्जसैवकी कर्मकारिणी । न ग्रहीष्यामि तद्वाहं राजराजस्य धीमतः
महान विनयो जातो मम नेत्र्याः सुवाजिनः । क्षमताद्रामचंद्रस्तच्छरण्यो भक्तवत्सलः
यूयं क्लिष्टास्तत्पुरुषा हयार्थं तस्य रक्षितुः । याचध्वं वरमप्राप्यं देवानामपि सत्तमाः
यथा मेमीवमत्युग्रं क्षमेत पुरुषोत्तमः । व्रीडां त्यक्त्वाखिलां यूयं वृणुध्वं वरमुत्तमम्
तस्या वचः परं श्रुत्वा हनूमान्नि जगाद ताम् । रघुनाथप्रसादेन सर्वमस्माकमूर्जितम्
तथापि याचे वरमेकमुत्तमं । विधेहि तन्मे मनसः समीहितम् । भवे भवे नो रघुनायकः पति -। र्वयं च तत्कर्मकराश्च किंकराः
एतद्वचनमाकर्ण्य प्लवगस्य तदांगना । उवाच वाक्यं मधुरं प्रहस्य गुणपूजितम्
भवद्भिः प्रार्थितं यद्वै दुर्ल्लभं सर्वदैवतैः । तद्भविष्यत्यसंदेहः सेवकास्तद्रघोः पतेः
अथापि वरमेकं वै दास्यामि कृतहेलना । रघुनाथस्य तुष्ट्यर्थं तदृतं मे भवेद्वचः
अग्रे वीरमणिर्भूपो महावीरसमन्वितः । ग्रहीष्यति भवद्वाहं शिवेन परिरक्षितः
तज्जयार्थे महास्त्रं मे गृह्णीत सुमहाबलाः । द्वैरथे स तु योद्धव्यः शत्रुघ्नेन त्वया महान्
इदमस्त्रं यदा त्वं तु क्षेपयिष्यसि संगरे । अनेन पूतो रामस्य स्वरूपं ज्ञास्यते पुनः
ज्ञात्वा तं वाजिनं दत्वा चरणे प्रपतिष्यति । तस्माद्गृह्णीध्वमस्त्रं तन्मम वैरिविदारणम्
तच्छ्रुत्वा रघुनाथस्य भ्राता जग्राह चास्त्रकम् । उदङ्मुखः पवित्रांगो योगिन्या दत्तमद्भुतम्
तत्प्राप्यास्त्रं महातेजा बभूव रिपुकर्शनः । दुष्प्रधर्ष्यो दुराराध्यो वैरिवारणसत्सृणिः
तां नत्वा राघवश्रेष्ठः शत्रुघ्नो हयसत्तमम् । गृहीत्वागाज्जलात्तस्माद्रेवातीरे सुखोचिते
तं दृष्ट्वा सैनिकाः सर्वे प्रहृष्टांगा मुदान्विताः । साधुसाधु प्रशंसंतः पप्रच्छुर्हयनिर्गमम्
हनूमान्कथयामास हयस्यागमनं महत् । वरप्राप्तिं च ताभ्यो वै तेऽपि श्रुत्वा मुदं गताः
शेष उवाच। निनदत्सुमृदंगेषु वीणानादेषु सर्वतः । मुक्तो वाहस्ततो देव पुरं देवविनिर्मितम्
यत्र स्फाटिक कुड्यानां रचनाभिर्गृहा नृणाम् । हसंति विंध्यं विमलं पर्वतं नागसेवितम्
राजतानि गृहाण्यत्र दृश्यंते प्रकृतेरपि । विचित्रमणिसन्नद्धा नानामाणिक्यगोपुराः
पद्मिन्यो यत्र लोकानां गेहे गेहे मनोहराः । हरंति चित्तानि नृणां मुखपद्मकलेक्षिताः
पद्मरागमणिर्यत्र गेहे गेहे सुभूमिषु । बद्धः संलक्ष्यते विप्र तदोष्ठस्पर्धया नु किम्
क्रीडाशैलाः प्रत्यगारं नीलरत्नविनिर्मिताः । कुर्वंति शंकां मेघस्य मयूराणां कलापिनाम्
हंसा यत्र नृणां गेहे स्फाटिकेषु नियंत्रिताः । कुर्वंति मेघान्नो भीतिं मानसं न स्मरंति च
निरंतरं शिवस्थाने ध्वस्तं चंद्रिकया तमः । शुक्लकृष्णविभेदो न पक्षयोस्तत्र वै नृणाम्
तत्र वीरमणी राजा धार्मिकेष्वग्रणीर्महान् । राज्यं करोति विपुलं सर्वभोगसमन्वितम्
तस्य पुत्रो महाशूरो नाम्ना रुक्मांगदो बली । वनिताभिर्गतो रम्यदेहाभिः क्रीडितुं वनम्
तासां मंजीरसंरावः कंकणानां रवस्तथा । मनो हरति कामस्य किमन्यस्य कथात्र भोः
वनं जगाम सुमहत्सुपुष्पनगसंयुतम् । सदाशिवकृतस्थानमृतुषट्कैर्विराजितम्