तस्माद्यूयं त्रयो गत्वा हयमानयत ध्रुवम् । यतो भवेद्वाहमेधो रघुनाथस्य धीमतः
शेष उवाच। इति वाक्यं समाश्रुत्य शत्रुघ्नः परवीरहा । स्वयं विवेश तोयांतर्हनुमत्पुष्कलान्वितः
यावज्जलं विवेशासौ तावत्पुरमदृश्यत । अनेकोद्यानशोभाढ्यममेयं पुटभेदनम्
तत्र माणिक्यरचिते स्तंभे स्वर्णमये हयम् । बद्धं ददर्श रामस्य स्वर्णपत्रसुशोभितम्
स्त्रियस्तत्र मनोहारि रूपधारिण्य उत्तमाः । सेवंते सुंदरीमेकां पर्यंके सुखमास्थिताम्
तान्दृष्ट्वा ताः स्त्रियः सर्वाः प्रावोचन्स्वामिनीं प्रति । एतेऽल्पवर्ष्मवयसो मांसपुष्टकलेवराः
भविष्यंति तव श्रेष्ठमाहारस्य फलं महत् । एतेषां शोणितं स्वादु पुरुषाणां गतायुषाम्
एतद्वचः समाकर्ण्य सेवकीनां वरांगना । जहास किंचिद्वदनं नर्तयंती भ्रुवानघा
तावत्त्रयस्ते संप्राप्ताः सन्नाहश्री विशोभिताः । शिरस्त्राणानि दधतः शौर्यवीर्यसमन्विताः
ता दृष्ट्वा महिलास्तत्र सौंदर्यश्रीसमन्विताः । प्रोचुस्ते विस्मयं विप्र किमिदं दृश्यते महत्
नमश्चक्रुर्महात्मानः सर्वे देववरांगनाः । किरीटमणिविद्योतद्योतितांघ्रियुगास्ततः
सा तान्पप्रच्छ पुरुषान्सर्वश्रेष्ठा तु भामिनी । के यूयमत्र संप्राप्ताः कथं चापधरा नराः
मत्स्थलं सर्वदेवानामगम्यं मोहनं महत् । अत्र प्राप्तस्य तु क्वापि निवृत्तिर्न भवत्युत
अश्वोऽयं कस्य राज्ञो वै कथं चामरवीजितः । स्वर्णपत्रेण शोभाढ्यः कथयंतु ममाग्रतः
शेष उवाच। इति तस्या वचः श्रुत्वा मोहनाचारसंयुतम् । हनूमांस्तां प्रत्युवाच गतभीः प्रहसन्निव
वयं वै किंकरा राज्ञस्त्रैलोक्यस्य शिखामणेः । त्रिलोकीयं प्रणमते सर्वदेवशिरोमणिम्
रामभद्रस्य जानीहि हयमेधप्रवर्तितुः । प्रमुंच वाहमस्माकं कथं बद्धो वराङ्गने
वयं सर्वास्त्रकुशलाः सर्वशस्त्रास्त्रकोविदाः । नयिष्यामो बलाद्वाहं हत्वा तत्प्रतिरोधकान्
इति वाक्यं समाकर्ण्य प्लवङ्गस्य वराङ्गना । विवरस्था प्रत्युवाच हसंती वाक्यकोविदा
मयानीतमिमं वाहं न कोमोचयितुं क्षमः । वर्षायुतेन निशितैर्बाणकोटिभिरुच्छिखैः
परं रामस्य पादाब्जसैवकी कर्मकारिणी । न ग्रहीष्यामि तद्वाहं राजराजस्य धीमतः
महान विनयो जातो मम नेत्र्याः सुवाजिनः । क्षमताद्रामचंद्रस्तच्छरण्यो भक्तवत्सलः
यूयं क्लिष्टास्तत्पुरुषा हयार्थं तस्य रक्षितुः । याचध्वं वरमप्राप्यं देवानामपि सत्तमाः
यथा मेमीवमत्युग्रं क्षमेत पुरुषोत्तमः । व्रीडां त्यक्त्वाखिलां यूयं वृणुध्वं वरमुत्तमम्
तस्या वचः परं श्रुत्वा हनूमान्नि जगाद ताम् । रघुनाथप्रसादेन सर्वमस्माकमूर्जितम्
तथापि याचे वरमेकमुत्तमं । विधेहि तन्मे मनसः समीहितम् । भवे भवे नो रघुनायकः पति -। र्वयं च तत्कर्मकराश्च किंकराः
एतद्वचनमाकर्ण्य प्लवगस्य तदांगना । उवाच वाक्यं मधुरं प्रहस्य गुणपूजितम्
भवद्भिः प्रार्थितं यद्वै दुर्ल्लभं सर्वदैवतैः । तद्भविष्यत्यसंदेहः सेवकास्तद्रघोः पतेः
अथापि वरमेकं वै दास्यामि कृतहेलना । रघुनाथस्य तुष्ट्यर्थं तदृतं मे भवेद्वचः
अग्रे वीरमणिर्भूपो महावीरसमन्वितः । ग्रहीष्यति भवद्वाहं शिवेन परिरक्षितः