व्यास उवाच। इति वाक्यं समाकर्ण्य प्रहृष्टेनांतरात्मना । उवाच रामचारित्रं तत्तद्गुणकथोदयम्
शेष उवाच। साधु पृच्छसि विप्रर्षे रघुनाथगुणान्मुहुः । श्रुता न श्रुतवत्कृत्वा तेषु लोलुपतां दधत्
ततो निरगमद्वाहः सैनिकैर्बहुभिवृतः । रेवातीरे मनोज्ञे तु मुनिवृंदनिषेविते
सेनाचरास्ततः सर्वे यत्र वाहस्ततस्ततः । प्रसर्पंति निरीक्षंतस्तन्मार्गं रणकोविदाः
वाजी गतोऽथ रेवाया ह्रदेऽगाधजलान्विते । भाले स्वर्णभवं पत्रं धारयन्पूजितांगकः
ततो जले ममज्जासौ रामचंद्र हयो वरः । तदा सर्वे महाशूरास्तत्र विस्मयमागताः
तैः परस्परमेवोचे कथं हयसमागमः । कोऽत्र गंता जले वाहमानेतुं तं महोदयम्
इति यावत्समुद्विग्ना मंत्रयंते परस्परम् । तावद्वीरशतैः सार्धमाजगाम रघोः पतिः
तान्सर्वान्विमनस्कान्स दृष्ट्वा शत्रुघ्नसंज्ञितः । पप्रच्छ मेघगंभीरवाचा वीरशिरोमणिः
किं स्थितं निखिलैरद्य युष्माभिः संघशो जले । कुत्राश्वो रघुनाथस्य स्वर्णपत्रेण शोभितः
जले किं विनिमग्नोऽसौ हृतो वा केन मानिना । तन्मे कथयत क्षिप्रं कथं यूयं विमोहिताः
शेष उवाच। इति वाक्यं समाकर्ण्य राज्ञो रघुवरस्य हि । कथयामासुस्ते सर्वं वीराः शूरशिरोमणिम्
जना ऊचुः। स्वामिन्वयं न जानीमो मुहूर्तमभवज्जले । निममज्ज ततो नायाद्धयस्तव मनोहरः
त्वमेव तत्र गत्वेमं वाहमानय वेगतः । अस्माभिस्तत्र गंतव्यं त्वया सार्द्धं महामते
इति श्रुत्वा वचस्तेषां सैनिकानां रघूद्वहः । खेदं प्राप जनान्पश्यञ्जलसंतरणोद्यतान्
उवाच मंत्रिमुख्यं स किं कर्तव्यमतः परम् । कथं वाहस्य संप्राप्तिर्भविष्यति वदस्व तत्
के तत्र शूराः संयोज्या जलेऽन्वेषयितुं हयम् । को वा नयिष्यते वाहं केनोपायेन तद्वद
इति राज्ञोवचः श्रुत्वा सुमतिर्मंत्रिसत्तमः । उवाच समये योग्यं शत्रुघ्नं हर्षयन्निव
स्वामिन्नस्ति तव श्रीमञ्छक्तिरद्भुतकर्मणः । पातालगमने शक्तिर्जलमध्यादिह स्फुटम्
अन्यच्च पुष्कलस्यापि शक्तिरस्ति महात्मनः । हनूमतोऽपि रामस्य पादसेवापरस्य च
तस्माद्यूयं त्रयो गत्वा हयमानयत ध्रुवम् । यतो भवेद्वाहमेधो रघुनाथस्य धीमतः
शेष उवाच। इति वाक्यं समाश्रुत्य शत्रुघ्नः परवीरहा । स्वयं विवेश तोयांतर्हनुमत्पुष्कलान्वितः
यावज्जलं विवेशासौ तावत्पुरमदृश्यत । अनेकोद्यानशोभाढ्यममेयं पुटभेदनम्
तत्र माणिक्यरचिते स्तंभे स्वर्णमये हयम् । बद्धं ददर्श रामस्य स्वर्णपत्रसुशोभितम्
स्त्रियस्तत्र मनोहारि रूपधारिण्य उत्तमाः । सेवंते सुंदरीमेकां पर्यंके सुखमास्थिताम्
तान्दृष्ट्वा ताः स्त्रियः सर्वाः प्रावोचन्स्वामिनीं प्रति । एतेऽल्पवर्ष्मवयसो मांसपुष्टकलेवराः
भविष्यंति तव श्रेष्ठमाहारस्य फलं महत् । एतेषां शोणितं स्वादु पुरुषाणां गतायुषाम्
एतद्वचः समाकर्ण्य सेवकीनां वरांगना । जहास किंचिद्वदनं नर्तयंती भ्रुवानघा
तावत्त्रयस्ते संप्राप्ताः सन्नाहश्री विशोभिताः । शिरस्त्राणानि दधतः शौर्यवीर्यसमन्विताः
ता दृष्ट्वा महिलास्तत्र सौंदर्यश्रीसमन्विताः । प्रोचुस्ते विस्मयं विप्र किमिदं दृश्यते महत्