त्वन्नामगर्जनं श्रुत्वा महापातककुंजराः । पलायंते महाराज कुत्रचित्स्थानलिप्सया
तस्मात्तव कथं हत्या महापुण्यददर्शन । राम त्वत्सुकथां श्रुत्वा पूतः सद्यो भविष्यति
मया पूर्वं कृतयुगे गंगायास्तीरवासिनाम् । ऋषीणां मुखतो वाक्यं श्रुतमेतत्पुराविदाम्
तावत्पापभियः पुंसां कातराणां सुपापिनाम् । यावन्न वदते वाचा रामनाममनोहरम्
तस्माद्धन्योऽहमधुना मम संसृतिनाशनम् । सांप्रतं सुलभं रामचंद्र त्वद्दर्शनादभूत्
इत्युक्तवंतं स मुनिं पूजयामास तत्र वै । सर्वे मुनिजनाः साधु साधु वाक्यमिति ब्रुवन्
शेष उवाच। अत्याश्चर्यमभूत्तत्र तन्मे निगदतः शृणु । वात्स्यायनमुनिश्रेष्ठ रामभक्तिपरायण
रामं दृष्ट्वा महाराजं यादृशं ध्यानगोचरम् । अत्यंतं हर्षमापन्नो जगाद स मुनीश्वरान्
मुनीश्वराः संशृणुत मद्वाक्यं सुमनोहरम् । मादृशः को न भूलोके भविष्यति सुभाग्यवान्
नास्ति मत्सदृशः कोपि न जातो न भविष्यति । यद्रामभद्रो मां नत्वा स्वागतं परिपृष्टवान्
यत्पादपंकजरजः श्रुतिमृग्यं सदैव हि । सोऽद्य मत्पादयोः पाथः पीत्वा पूतममन्यत
एवं प्रवदतस्तस्य ब्रह्मस्फोटोऽभवत्तदा । निर्गतं तद्भवं तेजो विवेश रघुनायके
पश्यतां सर्वलोकानां सरयूतीरमंडपे । सायुज्यमुक्तिं संप्राप दुर्ल्लभां योगिभिर्जनैः
दिवि तूर्यनिनादोऽभूद्वीणानादोऽभवत्तदा । पुष्पवृष्टिः पपाताग्रे पश्यतां चित्रमद्भुतम्
मुनयोऽप्येतदीक्षित्वा प्रशंसंतो मुनीश्वरम् । कृतार्थोयं मुनिश्रेष्ठो यद्रामवपुषीक्षितः
सूत उवाच। एतदाख्यानकं श्रुत्वा वात्स्यायन उदारधीः । परमं हर्षमापेदे जगाद च फणीश्वरम्
वात्स्यायन उवाच। कथां संशृण्वते मह्यं तृप्तिर्नास्ति फणीश्वर । रघुनाथस्य भक्तार्तिहारिकीर्तिकरस्य वै
धन्य आरण्यको नाम मुनिर्वेदधरः परः । रघुनाथं समालोक्य देहं तत्याज नश्वरम्
ततो राज्ञो हयः कुत्र गतः केन नियंत्रितः । कथं तत्र रमानाथ कीर्तिर्जाता फणीश्वर
सर्वं कथय मे तथ्यं सर्वज्ञोऽस्ति यतो भवान् । धराधरवपुर्धारी साक्षात्तस्य स्वरूपधृक्
व्यास उवाच। इति वाक्यं समाकर्ण्य प्रहृष्टेनांतरात्मना । उवाच रामचारित्रं तत्तद्गुणकथोदयम्
शेष उवाच। साधु पृच्छसि विप्रर्षे रघुनाथगुणान्मुहुः । श्रुता न श्रुतवत्कृत्वा तेषु लोलुपतां दधत्
ततो निरगमद्वाहः सैनिकैर्बहुभिवृतः । रेवातीरे मनोज्ञे तु मुनिवृंदनिषेविते
सेनाचरास्ततः सर्वे यत्र वाहस्ततस्ततः । प्रसर्पंति निरीक्षंतस्तन्मार्गं रणकोविदाः
वाजी गतोऽथ रेवाया ह्रदेऽगाधजलान्विते । भाले स्वर्णभवं पत्रं धारयन्पूजितांगकः
ततो जले ममज्जासौ रामचंद्र हयो वरः । तदा सर्वे महाशूरास्तत्र विस्मयमागताः
तैः परस्परमेवोचे कथं हयसमागमः । कोऽत्र गंता जले वाहमानेतुं तं महोदयम्
इति यावत्समुद्विग्ना मंत्रयंते परस्परम् । तावद्वीरशतैः सार्धमाजगाम रघोः पतिः
तान्सर्वान्विमनस्कान्स दृष्ट्वा शत्रुघ्नसंज्ञितः । पप्रच्छ मेघगंभीरवाचा वीरशिरोमणिः
किं स्थितं निखिलैरद्य युष्माभिः संघशो जले । कुत्राश्वो रघुनाथस्य स्वर्णपत्रेण शोभितः