चंदनेन विलिप्याथ गां च प्रादात्पयस्विनीम् । उवाच च वचो रम्यं देवदेवेंद्र सेवितः
स्वामिन्मखो मया वाजिमेधसंज्ञः क्रियेत ह । सोयं त्वच्चरणा यातादद्यपूर्णो भविष्यति
अद्य मे ब्रह्महत्योत्थ पापहानिं करिष्यति । अश्वमेधः क्रतुर्युष्मच्चरणेन पवित्रितः
इति वाक्यं ब्रुवाणं तं राजराजेंद्रसेवितम् । आरण्यक उवाचेदं हसन्माध्व्या गिरा मुनिः
स्वामिंस्तव तु युक्तं हि वचो ब्रह्मण्यभूमिप । त्वन्मूर्तयो महाराज ब्राह्मणा वेदपारगाः
त्वं यदा ब्रह्मपूजादि शुभं कर्म करिष्यसि । ततोऽखिला नृपा विप्रं पूजयिष्यंति भूमिप
त्वयोक्तं यन्महाराज विप्रहत्यापनुत्तये । यागं करोमि विमलं तत्तु हास्यकरं वचः
त्वन्नामस्मरणान्मूढः सर्वशास्त्रविवर्जितः । सर्वपापाब्धिमुत्तीर्य स गच्छेत्परमं पदम्
सर्ववेदेतिहासानां सारार्थोऽयमिति स्फुटम् । यद्रामनामस्मरणं क्रियते पापतारकम्
तावद्गर्जंति पापानि ब्रह्महत्यासमानि च । न यावत्प्रोच्यते नाम रामचंद्र तव स्फुटम्
त्वन्नामगर्जनं श्रुत्वा महापातककुंजराः । पलायंते महाराज कुत्रचित्स्थानलिप्सया
तस्मात्तव कथं हत्या महापुण्यददर्शन । राम त्वत्सुकथां श्रुत्वा पूतः सद्यो भविष्यति
मया पूर्वं कृतयुगे गंगायास्तीरवासिनाम् । ऋषीणां मुखतो वाक्यं श्रुतमेतत्पुराविदाम्
तावत्पापभियः पुंसां कातराणां सुपापिनाम् । यावन्न वदते वाचा रामनाममनोहरम्
तस्माद्धन्योऽहमधुना मम संसृतिनाशनम् । सांप्रतं सुलभं रामचंद्र त्वद्दर्शनादभूत्
इत्युक्तवंतं स मुनिं पूजयामास तत्र वै । सर्वे मुनिजनाः साधु साधु वाक्यमिति ब्रुवन्
शेष उवाच। अत्याश्चर्यमभूत्तत्र तन्मे निगदतः शृणु । वात्स्यायनमुनिश्रेष्ठ रामभक्तिपरायण
रामं दृष्ट्वा महाराजं यादृशं ध्यानगोचरम् । अत्यंतं हर्षमापन्नो जगाद स मुनीश्वरान्
मुनीश्वराः संशृणुत मद्वाक्यं सुमनोहरम् । मादृशः को न भूलोके भविष्यति सुभाग्यवान्
नास्ति मत्सदृशः कोपि न जातो न भविष्यति । यद्रामभद्रो मां नत्वा स्वागतं परिपृष्टवान्
यत्पादपंकजरजः श्रुतिमृग्यं सदैव हि । सोऽद्य मत्पादयोः पाथः पीत्वा पूतममन्यत
एवं प्रवदतस्तस्य ब्रह्मस्फोटोऽभवत्तदा । निर्गतं तद्भवं तेजो विवेश रघुनायके
पश्यतां सर्वलोकानां सरयूतीरमंडपे । सायुज्यमुक्तिं संप्राप दुर्ल्लभां योगिभिर्जनैः
दिवि तूर्यनिनादोऽभूद्वीणानादोऽभवत्तदा । पुष्पवृष्टिः पपाताग्रे पश्यतां चित्रमद्भुतम्
मुनयोऽप्येतदीक्षित्वा प्रशंसंतो मुनीश्वरम् । कृतार्थोयं मुनिश्रेष्ठो यद्रामवपुषीक्षितः
सूत उवाच। एतदाख्यानकं श्रुत्वा वात्स्यायन उदारधीः । परमं हर्षमापेदे जगाद च फणीश्वरम्
वात्स्यायन उवाच। कथां संशृण्वते मह्यं तृप्तिर्नास्ति फणीश्वर । रघुनाथस्य भक्तार्तिहारिकीर्तिकरस्य वै
धन्य आरण्यको नाम मुनिर्वेदधरः परः । रघुनाथं समालोक्य देहं तत्याज नश्वरम्
ततो राज्ञो हयः कुत्र गतः केन नियंत्रितः । कथं तत्र रमानाथ कीर्तिर्जाता फणीश्वर
सर्वं कथय मे तथ्यं सर्वज्ञोऽस्ति यतो भवान् । धराधरवपुर्धारी साक्षात्तस्य स्वरूपधृक्