विलोक्यारण्यकाख्योऽसौ कृतार्थ इत्यमन्यत । मल्लोचने पद्मदलसमाने रामलोकके
अद्य मे सर्वशास्त्रस्य ज्ञातृत्वं बहुसार्थकम् । येन श्रीराममाज्ञाय प्राप्तोऽयोध्यापुरीमिमाम्
इत्येवमादिवचनानि बहूनि हृष्टो । रामांघ्रिदर्शनसुहर्षित गात्रशोभी । प्रायाद्रमेश्वरसमीपमगम्यमन्यै-। र्योगेश्वरैरपि विचारपरैः सुदूरम्
धन्योऽहमद्य रामस्य चरणावक्षिगोचरौ । करिष्यामि वचो रम्यं वदन्राममवेक्षयन्
रामोऽपि वाडवश्रेष्ठं ज्वलंतं स्वेन तेजसा । तपोमूर्तिधरं वीक्ष्य प्रत्युत्थानमथाकरोत्
रामचंद्रस्तस्य पादौ सुचिरं नतवान्महान् । ब्रह्मण्यदेवपावित्र्यं कृतमद्यतनोर्मम
इति वाक्यं वदंस्तस्य पादयोः पतितः प्रभुः । सुरासुरनमन्मौलिमणिनीराजितांघ्रिकः
प्रणतं तं नृपश्रेष्ठं वाडवेंद्रो महातपाः । गृहीत्वा भुजयोर्मध्यमालिलिंग प्रियं प्रभुम्
कौसल्यातनयस्तं वा उच्चैर्मणिमयासने । संस्थाप्य च पदोर्युग्मं जलेनाक्षालयत्प्रभुः
पादावनेजनोदं तु मस्तकेऽधाद्धरिः स्वयम् । पवित्रितोऽद्य सगणः सकुटुंब इति ब्रुवन्
चंदनेन विलिप्याथ गां च प्रादात्पयस्विनीम् । उवाच च वचो रम्यं देवदेवेंद्र सेवितः
स्वामिन्मखो मया वाजिमेधसंज्ञः क्रियेत ह । सोयं त्वच्चरणा यातादद्यपूर्णो भविष्यति
अद्य मे ब्रह्महत्योत्थ पापहानिं करिष्यति । अश्वमेधः क्रतुर्युष्मच्चरणेन पवित्रितः
इति वाक्यं ब्रुवाणं तं राजराजेंद्रसेवितम् । आरण्यक उवाचेदं हसन्माध्व्या गिरा मुनिः
स्वामिंस्तव तु युक्तं हि वचो ब्रह्मण्यभूमिप । त्वन्मूर्तयो महाराज ब्राह्मणा वेदपारगाः
त्वं यदा ब्रह्मपूजादि शुभं कर्म करिष्यसि । ततोऽखिला नृपा विप्रं पूजयिष्यंति भूमिप
त्वयोक्तं यन्महाराज विप्रहत्यापनुत्तये । यागं करोमि विमलं तत्तु हास्यकरं वचः
त्वन्नामस्मरणान्मूढः सर्वशास्त्रविवर्जितः । सर्वपापाब्धिमुत्तीर्य स गच्छेत्परमं पदम्
सर्ववेदेतिहासानां सारार्थोऽयमिति स्फुटम् । यद्रामनामस्मरणं क्रियते पापतारकम्
तावद्गर्जंति पापानि ब्रह्महत्यासमानि च । न यावत्प्रोच्यते नाम रामचंद्र तव स्फुटम्
त्वन्नामगर्जनं श्रुत्वा महापातककुंजराः । पलायंते महाराज कुत्रचित्स्थानलिप्सया
तस्मात्तव कथं हत्या महापुण्यददर्शन । राम त्वत्सुकथां श्रुत्वा पूतः सद्यो भविष्यति
मया पूर्वं कृतयुगे गंगायास्तीरवासिनाम् । ऋषीणां मुखतो वाक्यं श्रुतमेतत्पुराविदाम्
तावत्पापभियः पुंसां कातराणां सुपापिनाम् । यावन्न वदते वाचा रामनाममनोहरम्
तस्माद्धन्योऽहमधुना मम संसृतिनाशनम् । सांप्रतं सुलभं रामचंद्र त्वद्दर्शनादभूत्
इत्युक्तवंतं स मुनिं पूजयामास तत्र वै । सर्वे मुनिजनाः साधु साधु वाक्यमिति ब्रुवन्
शेष उवाच। अत्याश्चर्यमभूत्तत्र तन्मे निगदतः शृणु । वात्स्यायनमुनिश्रेष्ठ रामभक्तिपरायण
रामं दृष्ट्वा महाराजं यादृशं ध्यानगोचरम् । अत्यंतं हर्षमापन्नो जगाद स मुनीश्वरान्
मुनीश्वराः संशृणुत मद्वाक्यं सुमनोहरम् । मादृशः को न भूलोके भविष्यति सुभाग्यवान्
नास्ति मत्सदृशः कोपि न जातो न भविष्यति । यद्रामभद्रो मां नत्वा स्वागतं परिपृष्टवान्