शृणुष्व वचनं तथ्यं भवान्ब्रह्मर्षिसत्तमः । त्वया पृष्टं यदस्मभ्यं सर्वं तत्कथयाम वै
अगस्त्यवाक्याच्छ्रीरामो विप्रहत्यापनुत्तये । यागं करोति सुमहान्सर्वसंभारसंभृतम्
तं पालयानाः सर्वे वै त्वदाश्रममुपागताः । अश्वेन सहिता विप्र तज्जानीहि महामते
इति वाक्यं समाकर्ण्य मनोहारि रसायनम् । अत्यंतं हर्षमापेदे ब्राह्मणो रामभक्तिमान्
अद्य मे फलितो वृक्षो मनोरथश्रियान्वितः । अद्य मे जननी धन्या जातं मां सुषुवे तु या
अद्य राज्यं मया प्राप्तं कंटकेन विवर्जितम् । अद्य कोशाः सुसंपन्ना अद्य देवाः सुतोषिताः
अग्निहोत्रफलं त्वद्य प्राप्तं मे हविषा हुतम् । यद्द्रक्ष्ये रामचंद्रस्य चरणांभोरुहोर्युगम्
यो नित्यं ध्यायते स्वांते अयोध्यायाः पतिः प्रभुः । स मे दृग्गोचरो नूनं भविष्यति मनोहरः
हनूमान्मां समालिंग्य प्रक्ष्यते कुशलं मम । भक्तिं मे महतीं दृष्ट्वा तोषं प्राप्स्यति सत्तमः
इति वाक्यं समाकर्ण्य हनूमान्कपिसत्तमः । जग्राह पादयुगलं मुनेरारण्यकस्य हि
स्वामिन्हनूमान्विप्रर्षे सेवकोऽहं पुरःस्थितः । जानीहि रामदासस्य रेणुकल्पं मुनीश्वर
इत्युक्तवति तस्मिन्वै मुनिः परमहर्षितः । आलिलिंग हनूमंतं रामभक्त्या सुशोभितम्
उभौ प्रेमविनिर्भिन्नावुभावपि सुधाप्लुतौ । स्थगितौ चित्रलिखिताविव तत्र बभूवतुः
उपविष्टौ कथास्तत्र चक्रतुः सुमनोहराः । रघुनाथपदांभोजप्रीतिनिर्भरमानसौ
हनूमांस्तमुवाचेदं वचो विविधशोभनम् । आरण्यकं मुनिवरं रामांघ्रिध्याननिर्भृतम्
स्वामिन्नयं दशरथकुलहीरांकुरो महान् । रामभ्राता महाशूरः शत्रुघ्नः प्रणमत्यसौ
लवणो येन निहतः सर्वलोकभयंकरः । कृताश्च सुखिनः सर्वे मुनयः सुतपोधनाः
एष पुष्कलनामा त्वां नमत्युद्भटसेवितः । येनाधुना महावीरा जिताः समरमंडले
जानीह्येनं बहुगुणं रामामात्यं महाबलम् । प्राणप्रियं रघुपतेः सर्वज्ञं धर्मकोविदम्
सुबाहुरयमत्युग्रो वैरिवंशदवानलः । रामपादाब्जरोलंबो नमति त्वां महायशाः
सुमदोऽप्येष पार्वत्या दत्तरामांघ्रिसेवया । प्राप्तोऽधुनासौ संसारवार्धिनिस्तरणं महत्
सत्यवानयमश्वं यः प्राप्तमाश्रुत्य सेवकात् । राज्यं निवेदयामास स त्वां प्रणमति क्षितौ
इति वाक्यं समाकर्ण्य समालिंग्य समादरात् । चकारारण्यक ऋषिः स्वागतं फलकादिना
ते हृष्टास्तत्र वसतिं चक्रुर्मुनिवराश्रमे । प्रातर्नित्यक्रियां कृत्वा रेवायां ते महोद्यमाः
नरयानमथारोप्य सेवकैः सहितं मुनिम् । शत्रुघ्नः प्रापयामासायोध्यां रामकृतालयाम्
स दूरान्नगरीं दृष्ट्वा सूर्यवंशनृपोषिताम् । पदातिरभवद्वेगाद्रघुनाथदिदृक्षया
संप्राप्य नगरीं रम्यामयोध्यां जनशोभिताम् । मनोरथसहस्रेण संरूढो रामदर्शने
ददर्श तत्र सरयूतीरे मंडपशोभिते । रामं दूर्वादलश्यामं कंजकांतिविलोचनम्
मृगशृंगं कटौ रम्यं धारयंतं श्रियान्वितम् । ऋषिवृंदैर्व्यासमुख्यैर्वृतं शूरैः सुसेवितम्
भरतेन सुमित्रायास्तनूजेन परीवृतम् । ददतं दीनसंधेभ्यो दानानि प्रार्थितानि तम्