प्रेरितो वासवेनाजावर्पयामास भक्तितः
अष्टादशदिनै रामो रावणं द्वैरथेऽवधीत्
माघशुक्लद्वितीयायाश्चैत्रकृष्ण चतुर्दशीम्
युद्धावहारः संग्रामो द्वासप्तति दिनान्यभूत्
वैशाखादि तिथौ राम उवास रणभूमिषु
सीताशुद्धिस्तृतीयायां देवेभ्यो वरलंभनम्
गृहीत्वा जानकीं पुण्यां दुःखितां राक्षसेन तु
वैशाखस्य चतुर्थ्यां तु रामः पुष्पकमाश्रितः
पूर्णे चतुर्दशे वर्षे पंचम्यां माधवस्य तु
नंदिग्रामे तु षष्ठ्यां स भरतेन समागतः
दशैकाधिकमासांस्तुचतुर्दशाहानि मैथिली
द्विचत्वारिंशक वर्षे रामो राज्यमकारयत्
स चतुर्दशवर्षांते प्रविश्य च पुरीं प्रभुः
भ्रातृभिः सहितस्तत्र रामो राज्यमथाकरोत्
अगस्त्यः कुंभसंभूतिस्तमागंता रघोः पतिम्
तस्यागमिष्यति हयो ह्याश्रमे तव सुव्रत
तेषामग्रे रामकथाः करिष्यसि मनोहराः
दृष्ट्वा राममयोध्यायां पद्मपत्रनिभेक्षणम्
इत्युक्त्वा मां मुनिवरो लोमशः सर्वबुद्धिमान्
ज्ञातं त्वत्कृपया सर्वं रामचारित्रमद्भुतम्
मया नमस्कृतः पश्चाज्जगाम स मुनीश्वरः
सोऽहं स्मरामि रामस्य चरणावन्वहं मुहुः
पावयामि जनानन्यान्गानेन स्वांतहारिणा
धन्योऽहं कृतकृत्योऽहं सभाग्योऽहं महीतले
तस्मात्सर्वात्मना रामो भजनीयो मनोहरः
तस्माद्यूयं किमर्थं वै प्राप्ताः को वानराधिपः
तत्सर्वं कथयंत्वत्र यां तु वाहस्य पालने
इति वाक्यं समाकर्ण्य मुनेर्विस्मयमागताः
शेष उवाच। ते पृष्टा मुनिवर्येण रामचारित्रमद्भुतम् । धन्यं सभाग्यं मन्वानाः प्रोचुरात्मानमादरात्
जना ऊचुः। पवित्रिता वयं सर्वे दर्शनेन तवाधुना । यद्रामकथयास्मान्वै पावयस्यधुना जनान्