तीर्त्वाहं सागरमपि हनिष्ये राक्षसेश्वरम्
वासरैः सप्तभिः सिंधोः स्कंधावारनिवेशनम्
उपस्थानं ससैन्यस्य राघवस्य बभूव ह
समुद्रतरणार्थाय पंचम्यां मंत्र उद्यतः
समुद्रवरलाभश्च सहोपायप्रदर्शनम्
चतुर्दश्यां सुवेलाद्रौ रामः सैन्यं न्यवेशयत्
तीर्त्वा तोयनिधिं रामो वानरेश्वरसैन्यवान्
तृतीयादि दशम्यंतं निवेशश्च दिनाष्टकम्
पौषासिताख्यद्वादश्यां सैन्यसंख्यानमेव च
त्रयोदश्या अमावास्यां लंकायां दिवसैस्त्रिभिः
प्रययावंगदो दौत्यं माघशुक्लाद्यवासरे
माघद्वितीयादि दिनैः सप्तभिर्यावदष्टमी
माघशुक्लनवम्यां तु रात्राविंद्रजिता रणे
आकुलेषु कपीशेषु निरुत्साहेषु सर्वशः
कर्णे स्वरूपं रामस्य गरुडागमनं ततः
त्रयोदश्यां तु तेनैव निहतः कंपनो रणे
त्रिदिनेन प्रहस्तस्य नीलेन विहितो वधः
रामेण तुमुले युद्धे रावणो द्रावितो रणात्
कुंभकर्णस्तदा चक्रेऽभ्यवहारं चतुर्दिनम्
रामेण निहतो युद्धे बहुवानरभक्षकः
फाल्गुनादिप्रतिपदश्चतुर्थ्यंतं चतुर्दिनैः
पंचम्याः सप्तमी यावदतिकायवधस्तथा
निकुंभकुंभावूर्ध्वं तु मकराक्षस्त्रिभिर्दिनैः
तृतीयादिसप्तम्यंतं दिनपंचकमेव च
ततस्त्रयोदशीयावद्दिनैः पंचभिरिंद्रजित्
चतुर्दश्यां दशग्रीवो दीक्षां प्रापावहारतः
चैत्रशुक्लप्रतिपदः पंचमीदिनपंचकैः
चैत्रषष्ठ्याष्टमी यावन्महापार्श्वादि मारणम्
कोपाविष्टेन रामेण द्रावितो दशकंधरः
दशम्यामवहारोभूद्रात्रौ युद्धे तु रक्षसाम्