तथा कामवशं प्राप्तो रावणो जनकात्मजाम्
युयुधे राक्षसेंद्रेण स रावणहतोऽपतत्
संपातिर्दशमे मास आचख्यौ वानरेषु ताम्
हनूमान्निशि तस्यां तु लंकायां पर्यकालयत्
द्वादश्यां शिंशपावृक्षे हनूमान्पर्यवस्थितः
अक्षादिभिस्त्रयोदश्यां ततो युद्धमवर्तत
वह्निना पुच्छयुक्तेन लंकाया दहनं कृतम्
मार्गासितप्रतिपदः पंचभिः पथिवासरैः
सप्तम्यां प्रत्यभिज्ञानदानं सर्वनिवेदनम्
मध्यं प्राप्ते सहस्रांशौ प्रस्थानं राघवस्य च
तीर्त्वाहं सागरमपि हनिष्ये राक्षसेश्वरम्
वासरैः सप्तभिः सिंधोः स्कंधावारनिवेशनम्
उपस्थानं ससैन्यस्य राघवस्य बभूव ह
समुद्रतरणार्थाय पंचम्यां मंत्र उद्यतः
समुद्रवरलाभश्च सहोपायप्रदर्शनम्
चतुर्दश्यां सुवेलाद्रौ रामः सैन्यं न्यवेशयत्
तीर्त्वा तोयनिधिं रामो वानरेश्वरसैन्यवान्
तृतीयादि दशम्यंतं निवेशश्च दिनाष्टकम्
पौषासिताख्यद्वादश्यां सैन्यसंख्यानमेव च
त्रयोदश्या अमावास्यां लंकायां दिवसैस्त्रिभिः
प्रययावंगदो दौत्यं माघशुक्लाद्यवासरे
माघद्वितीयादि दिनैः सप्तभिर्यावदष्टमी
माघशुक्लनवम्यां तु रात्राविंद्रजिता रणे
आकुलेषु कपीशेषु निरुत्साहेषु सर्वशः
कर्णे स्वरूपं रामस्य गरुडागमनं ततः
त्रयोदश्यां तु तेनैव निहतः कंपनो रणे
त्रिदिनेन प्रहस्तस्य नीलेन विहितो वधः
रामेण तुमुले युद्धे रावणो द्रावितो रणात्
कुंभकर्णस्तदा चक्रेऽभ्यवहारं चतुर्दिनम्
रामेण निहतो युद्धे बहुवानरभक्षकः