उपयेमे विवाहेन रम्यां सीतामयोनिजाम्
ततो द्वादश वर्षाणि रेमे रामस्तया सह
राजानमथ कैकेयी वरद्वयमयाचत
जटाधरः प्रव्रजतुवर्षाणीह चतुर्दश
जानकी लक्ष्मणसखं रामं प्राव्राजयन्नृपः
पंचमे चित्रकूटे तु रामस्थानमकल्पयत्
रामो विरूपयामास शूर्पणखां निशाचरीम्
आगतो राक्षसस्तां तु हर्तुं पापविपाकतः
राघवाभ्यां विना सीतां जहार दशकंधरः
रामरामेति मां रक्ष रक्ष मां रक्षसा हृताम्
तथा कामवशं प्राप्तो रावणो जनकात्मजाम्
युयुधे राक्षसेंद्रेण स रावणहतोऽपतत्
संपातिर्दशमे मास आचख्यौ वानरेषु ताम्
हनूमान्निशि तस्यां तु लंकायां पर्यकालयत्
द्वादश्यां शिंशपावृक्षे हनूमान्पर्यवस्थितः
अक्षादिभिस्त्रयोदश्यां ततो युद्धमवर्तत
वह्निना पुच्छयुक्तेन लंकाया दहनं कृतम्
मार्गासितप्रतिपदः पंचभिः पथिवासरैः
सप्तम्यां प्रत्यभिज्ञानदानं सर्वनिवेदनम्
मध्यं प्राप्ते सहस्रांशौ प्रस्थानं राघवस्य च
तीर्त्वाहं सागरमपि हनिष्ये राक्षसेश्वरम्
वासरैः सप्तभिः सिंधोः स्कंधावारनिवेशनम्
उपस्थानं ससैन्यस्य राघवस्य बभूव ह
समुद्रतरणार्थाय पंचम्यां मंत्र उद्यतः
समुद्रवरलाभश्च सहोपायप्रदर्शनम्
चतुर्दश्यां सुवेलाद्रौ रामः सैन्यं न्यवेशयत्
तीर्त्वा तोयनिधिं रामो वानरेश्वरसैन्यवान्
तृतीयादि दशम्यंतं निवेशश्च दिनाष्टकम्
पौषासिताख्यद्वादश्यां सैन्यसंख्यानमेव च
त्रयोदश्या अमावास्यां लंकायां दिवसैस्त्रिभिः