अयोध्यानगरे रम्ये चित्रमंडपशोभिते । ध्यायेत्कल्पतरोर्मूले सर्वकामसमृद्धिदे
महामरकतस्वर्णनीलरत्नादिशोभितम् । सिंहासनं चित्तहरं कांत्या तामिस्रनाशनम्
तस्योपरि समासीनं रघुराजं मनोरमम् । दूर्वादलश्यामतनुं देवदेवेंद्रपूजितम्
राकायां पूर्णशीतांशुकांतिधिक्कारिवक्त्रिणम् । अष्टमीचंद्रशकलसमभालाधिधारिणम्
नीलकुंतलशोभाढ्यं किरीटमणिरंजितम् । मकराकारसौंदर्यकुंडलाभ्यां विराजितम्
विद्रुमच्छवि सत्कांतिरदच्छदविराजितम् । तारापतिकराकार द्विजराजि सुशोभितम्
जपापुष्पाभया माध्व्या जिह्वया शोभिताननम् । यस्यां वसंति निगमा ऋगाद्याः शास्त्रसंयुताः
कंबुकांतिधरग्रीवा शोभया समलंकृतम् । सिंहवदुच्चकौ स्कन्धौ मांसलौ बिभ्रतं वरम्
बाहू दधानं दीर्घांगौ केयूरकटकांकितौ । मुद्रिकाहीरशोभाभिर्भूषितौ जानुलंबिनौ
वक्षो दधानं विपुलं लक्ष्मीवासेन शोभितम् । श्रीवत्सादिविचित्रांकैरंकितं सुमनोहरम्
महोदरं महानाभिं शुभकट्याविराजितम् । कांच्या वै मणिमत्या च विशेषेण श्रियान्वितम्
ऊरुभ्यां विमलाभ्यां वै जानुभ्यां शोभितं श्रिया । चरणाभ्यां वज्ररेखा यवांकुशसुरेखया
युताभ्यां योगिध्येयाभ्यां कोमलाभ्यां विराजितम् । ध्यात्वा स्मृत्वा च संसारसागरं त्वं तरिष्यसि
तमेव पूजयन्नित्यं चंदनादिभिरिच्छया । प्राप्नोति परमामृद्धिमैहिकामुष्मिकीं पराम्
त्वया पृष्टं महाराज रामस्य ध्यानमुत्तमम् । तत्ते कथितमेतद्वै संसारजलधिं तर
शेषउवाच। एतच्छ्रुत्वा तु विप्रेन्द्रो लोमशात्परमं महत्
आरण्यक उवाच। मुनिश्रेष्ठ वदैतन्मे पृच्छामि त्वां महामते
कोऽसौ रामो महाभाग यो नित्यं ध्यायते त्वया
किमर्थमवतीर्णोऽसौ कस्मान्मानुषतां गतः
शेष उवाच। इति वाक्यं समाकर्ण्य मुनेः परमशोभनम्
लोकान्निरयसंमग्नाञ्ज्ञात्वा योगेश्वरेश्वरः
एवं ज्ञात्वा दयावार्धिः परमेशो मनोहरः
पुरा त्रेतायुगे प्राप्ते पूर्णांशो रघुनन्दनः
स रामो लक्ष्मणसखः काकपक्षधरो युवा
यज्ञसंरक्षणार्थाय राज्ञा दत्तौ कुमारकौ
पथि प्रव्रजतोस्तत्र ताटका नाम राक्षसी
ऋषेरनुज्ञया रामस्ताटकां यमयातनाम्
यस्य पादतलस्पर्शाच्छिला वासवयोगजा
विश्वामित्रस्य यज्ञे तु सुप्रवृत्ते रघूत्तमः
ईश्वरस्य धनुर्भग्नं जनकस्य गृहे स्थितम्