तच्छ्रुत्वा वाक्यमेतस्य मुनिवर्यस्य वाडव । सुमतिः कथयामास वाक्यं वादविचक्षणः
सुमतिरुवाच। रघुवंशनृपस्यायमश्वो वै पाल्यतेऽखिलैः । यागं करिष्यते वीरः सर्वसंभारसंभृतम्
तच्छ्रुत्वा वचनं तेषां जगाद मुनिसत्तमः । दंतकांत्याखिलं घोरं तमोनिर्वारयन्निव
आरण्यक उवाच। किं यागैर्विविधैरन्यैः सर्वसंभारसंभृतैः । स्वल्पपुण्यप्रदैर्नूनं क्षयिष्णुपददातृभिः
मूढो लोको हरिं त्यक्त्वा करोत्यन्यसमर्चनम् । रघुवीरं रमानाथं स्थिरैश्वर्यपदप्रदम्
यो नरैः स्मृतमात्रोपि हरते पापपर्वतम् । तं मुक्त्वा क्लिश्यते मूढो यागयोगव्रतादिभिः
अहो पश्यत मूढत्वं लोकानामतिवंचितम् । सुलभं रामभजनं मुक्त्वा दुर्ल्लभमाचरेत्
सकामैर्योगिभिर्वापि चिंत्यते कामवर्जितैः । अपवर्गप्रदं नॄणां स्मृतमात्राखिलाघहम्
पुराहं तत्त्ववित्सायां ज्ञानिनं सुविचारयन् । अगमं बहुतीर्थानि तत्त्वं कोपि न मेऽदिशत्
तदैकं हि महद्भाग्यात्प्राप्तं वै लोमशं मुनिम् । स्वर्गलोकात्समायातं तीर्थयात्राचिकीर्षया
तमहं प्रणिपत्याथ पर्यपृच्छं महामुनिम् । महायुषं महायोगिसंसेवितपदद्वयम्
स्वामिन्मयाद्य मानुष्यं प्राप्तमद्भुतदुर्ल्लभम् । संसारघोरजलधिं किं कर्तव्यं तितीर्षुणा
विचार्य कथय त्वं तद्व्रतं दानं जपो मखः । देवो वा विद्यते यो वै संसृत्यंभोधितारकः
यज्ज्ञात्वा संसृतिं घोरां तरामि त्वत्कृपाब्धितः । तन्मे कथय योगेश सर्वशास्त्रार्थपारग
इति मद्वाक्यमाकर्ण्य जगाद मुनिसत्तमः । शृणुष्वैकमना विप्र श्रद्धया परया युतः
संति दानानि तीर्थानि व्रतानि नियमा यमाः । योगा यज्ञास्तथानेके वर्तंते स्वर्गदायकाः
परं गुह्यं प्रवक्ष्यामि सर्वपापप्रणाशनम् । तच्छृणुष्व महाभाग संसारांभोधितारकम्
नास्तिकाय न वक्तव्यं न चाऽश्रद्धालवे पुनः । निंदकाय शठायापि न देयं भक्तिवैरिणे
रामभक्ताय शांताय कामक्रोधवियोगिने । वक्तव्यं सर्वदुःखस्य नाशकारकमुत्तमम्
रामान्नास्ति परो देवो रामान्नास्ति परं व्रतम् । न हि रामात्परो योगो न हि रामात्परो मखः
तं स्मृत्वा चैव जप्त्वा च पूजयित्वा नरः परम् । प्राप्नोति परमामृद्धिमैहिकामुष्मिकीं तथा
संस्मृतो मनसा ध्यातः सर्वकामफलप्रदः । ददाति परमां भक्तिं संसारांभोधितारिणीम्
श्वपाकोपि हि संस्मृत्य रामं याति परां गतिम् । ये वेदशास्त्रनिरतास्त्वादृशास्तत्र किं पुनः
सर्वेषां वेदशास्त्राणां रहस्यं ते प्रकाशितम् । समाचर तथा त्वं वै यथा स्यात्ते मनीषितम्
एको देवो रामचंद्रो व्रतमेकं तदर्चनम् । मंत्रोऽप्येकश्च तन्नाम शास्त्रं तद्ध्येव तत्स्तुतिः
तस्मात्सर्वात्मना रामचंद्रं भजमनोहरम् । यथा गोष्पदवत्तुच्छो भवेत्संसारसागरः
श्रुत्वा मया तु तद्वाक्यं पुनः प्रश्नमकारिषम् । कथं वा ध्यायते देवः कथं वा पूज्यते नरैः
कथयस्व महाबुद्धे सर्वज्ञ मम विस्तरात् । यज्ज्ञात्वाहं कृतार्थः स्यां त्रिलोक्यां मुनिसत्तम
एतच्छ्रुत्वा तु मद्वाक्यं विचार्य स तु लोमशः । कथयामास मे सर्वं रामध्यानपुरःसरम्
शृणु विप्रेंद्र वक्ष्यामि यत्पृष्टं तु त्वयानघ । यथा तुष्येद्रमानाथः संसारज्वरदाहकः