दिष्ट्या प्राप्तो महावाजी रघुनाथस्य शोभनः । दिष्ट्या गंतासि सर्वत्र जयं तु क्षितिमंडले
स्वामिन्मुंचत्विमं वाहं मनोवेगं मनोरमम् । समयस्य विलंबो मा भवत्वत्र महामते
शेष उवाच। इति श्रुत्वा तु तद्वाक्यं वीराणां समयोचितम् । साधु साधु प्रशस्यैतान्मुमोच हयसत्तमम्
स मुक्तश्चोत्तरामाशां बभ्रामाथ सुरक्षितः । रथपत्तिहयश्रेष्ठैः सर्वशस्त्रास्त्रकोविदैः
तत्र यद्वृत्तमेतस्य शत्रुघ्नस्य मनोहरम् । वात्स्यायन शृणुष्वैतत्पापराशिप्रदाहकम्
रेवातीरमथ प्राप्तो मुनिवृंदनिषेवितम् । नीलरत्नसमूहस्य रसः किं तु पयो मिषात्
तांस्तान्मुनिवरान्सर्वान्प्रणमञ्छूरसेवितः । जगाम हयरत्नस्य पृष्ठतः कामगामिनः
गच्छंस्तत्राश्रमं जीर्णं पलाशपर्णनिर्मितम् । रेवायाजलकल्लोलैः सिक्तं पापहराश्रयम्
तं दृष्ट्वा सुमतिं प्राह सर्वज्ञं नयकोविदम् । शत्रुघ्नः सर्वधर्मार्थकर्मकर्तव्यकोविदः
राजोवाच। मंत्रिन्कथय कस्यायमाश्रमः पुण्यदर्शनः । विचारचतुरश्रेष्ठ वदैतन्मम पृच्छतः
शेष उवाच। इति वाक्यं समाकर्ण्य सुमतिः प्राह तं नृपम् । विशद स्मेरया वाचा दर्शयन्नात्मसौहृदम्
सुमतिरुवाच। एनं दृष्ट्वा महाराज धूतपापा वयं खलु । भविष्यामो मुनिश्रेष्ठं सर्वशास्त्रपरायणम्
तस्मान्नत्वा तमापृच्छ सर्वं ते कथयिष्यति । रघुनाथपदांभोजमकरंदाति लोलुपः
नाम्ना त्वारण्यकं ख्यातं रघुनाथांघ्रिसेवकम् । अत्युग्रतपसा पूर्णं सर्वशास्त्रार्थकोविदम्
इति श्रुत्वा तु तद्वाक्यं धर्मार्थपरिबृंहितम् । जगाम तमथो द्रष्टुं स्वल्पसेवकसंयुतः
हनूमान्पुष्कलो वीरः सुमतिर्मंत्रिसत्तमः । लक्ष्मीनिधिः प्रतापाग्र्यः सुबाहुः सुमदस्तथा
एतैः परिवृतो राजा शत्रुघ्नः प्रापदाश्रमम् । नमस्कर्तुं द्विजवरमारण्यकमुदारधीः
गत्वा तं तापसश्रेष्ठं नमस्कारमथाकरोत् । सर्वैस्तैः सहितो वीरैर्विनयानतकंधरैः
तान्दृष्ट्वा सन्नतान्सर्वाञ्छत्रुघ्नप्रमुखान्नृपान् । अर्घ्यपाद्यादिकं चक्रे फलमूलादिभिस्तदा
उवाच तान्नृपान्सर्वान्भवंतः कुत्र संगताः । कथमत्र समायातास्तत्सर्वं वदतानघाः
तच्छ्रुत्वा वाक्यमेतस्य मुनिवर्यस्य वाडव । सुमतिः कथयामास वाक्यं वादविचक्षणः
सुमतिरुवाच। रघुवंशनृपस्यायमश्वो वै पाल्यतेऽखिलैः । यागं करिष्यते वीरः सर्वसंभारसंभृतम्
तच्छ्रुत्वा वचनं तेषां जगाद मुनिसत्तमः । दंतकांत्याखिलं घोरं तमोनिर्वारयन्निव
आरण्यक उवाच। किं यागैर्विविधैरन्यैः सर्वसंभारसंभृतैः । स्वल्पपुण्यप्रदैर्नूनं क्षयिष्णुपददातृभिः
मूढो लोको हरिं त्यक्त्वा करोत्यन्यसमर्चनम् । रघुवीरं रमानाथं स्थिरैश्वर्यपदप्रदम्
यो नरैः स्मृतमात्रोपि हरते पापपर्वतम् । तं मुक्त्वा क्लिश्यते मूढो यागयोगव्रतादिभिः
अहो पश्यत मूढत्वं लोकानामतिवंचितम् । सुलभं रामभजनं मुक्त्वा दुर्ल्लभमाचरेत्
सकामैर्योगिभिर्वापि चिंत्यते कामवर्जितैः । अपवर्गप्रदं नॄणां स्मृतमात्राखिलाघहम्
पुराहं तत्त्ववित्सायां ज्ञानिनं सुविचारयन् । अगमं बहुतीर्थानि तत्त्वं कोपि न मेऽदिशत्
तदैकं हि महद्भाग्यात्प्राप्तं वै लोमशं मुनिम् । स्वर्गलोकात्समायातं तीर्थयात्राचिकीर्षया