तेनास्त्रेण विमानात्खात्पतन्तो मुक्तमूर्धजाः । दृश्यंते भूतवेतालसंघा इव नभश्चराः
तदस्त्रं रघुनाथस्य भ्रात्रा मुक्तं विलोक्य सः । अस्त्रं च पाशुपत्यं स चापे धाद्दनुजात्मजः
ततः प्रवृत्ता वेताला भूताः प्रेतनिशाचराः । कपालकर्तरीयुक्ताः पिबन्तः शोणितं बहु
ते वै शत्रुघ्नवीराणां रुधिराणि पपुर्मुदा । जीवतामपि दुर्वाराः कर्तरीपाणिशोभिताः
तदस्त्रं व्याप्नुवद्दृष्ट्वा सर्ववीरप्रभंजनम् । मुमोच तन्निरासाय चास्त्रं नारायणाभिधम्
नारायणास्त्रं तान्सर्वान्वारयामास तत्क्षणात् । ते सर्वे विलयं प्रापुर्निशाचरप्रणोदिताः
तदा क्रुद्धो निशाचारी विद्युन्माली समाददे । त्रिशूलं निशितं घोरं शत्रुघ्नं हंतुमुल्बणम्
शूलहस्तं समायांतं विद्युन्मालिनमाहवे । सायकैः प्राहरत्तस्य भुजे त्वर्धशशिप्रभैः
तैर्बाणैश्छिन्नहस्तः स शिरसा हंतुमुद्यतः । हतोसि याहि शत्रुघ्न कस्त्वां त्राता भविष्यति
इति ब्रुवाणं तरसा चिच्छेद शितसायकैः । मस्तकं तस्य बलिनः शूरस्य सह कुंडलम्
तं छिन्नशिरसं दृष्ट्वा उग्रदंष्ट्रः प्रतापवान् । मुष्टिना हंतुमारेभे शत्रुघ्नं शूरसेवितम्
शत्रुघ्नस्तु क्षुरप्रेण सायकेनाच्छिनच्छिरः । प्रधावतो रणे वीरान्सर्वशस्त्रास्त्रकोविदान्
हतशेषा ययुः सर्वे राक्षसा नाथवर्जिताः । शत्रुघ्नं प्रणिपत्याथ ददुर्वाजिनमाहृतम्
ततो वीणानिनादाश्च शंखनादाः समंततः । श्रूयंते शूरवीराणां जयनादा मनोहराः
शेष उवाच। प्राप्य तं वाजिनं राजा शत्रुघ्नो राक्षसैर्हृतम् । अत्यंतं हर्षमापेदे पुष्कलेन समन्वितः
रुधिरैः सिक्तगात्रास्ते योधा लक्ष्मीनिधिस्तथा । रणोत्साहेन संयुक्तं प्रशशंसुर्महानृपम्
हते तस्मिन्महादैत्ये विद्युन्मालिनि दुर्जये । सुराः सर्वे भयं त्यक्त्वा सुखमापुर्मुनेमहत्
नद्यस्तु विमला जाता रविस्तु विमलोऽभवत् । वाता ववुः सुगंधोद सिक्ता विमलशुष्मिणः
सन्नद्धास्ते महावीरा रथस्था विमलांगकाः । राजानमूचुस्ते सर्वे जयलक्ष्म्या समन्विताः
वीरा ऊचुः। दिष्ट्या हतस्त्वया दैत्यो विद्युन्माली महामते । यद्भयात्त्रासमापन्नाः सुराः स्वर्गान्निराकृताः
दिष्ट्या प्राप्तो महावाजी रघुनाथस्य शोभनः । दिष्ट्या गंतासि सर्वत्र जयं तु क्षितिमंडले
स्वामिन्मुंचत्विमं वाहं मनोवेगं मनोरमम् । समयस्य विलंबो मा भवत्वत्र महामते
शेष उवाच। इति श्रुत्वा तु तद्वाक्यं वीराणां समयोचितम् । साधु साधु प्रशस्यैतान्मुमोच हयसत्तमम्
स मुक्तश्चोत्तरामाशां बभ्रामाथ सुरक्षितः । रथपत्तिहयश्रेष्ठैः सर्वशस्त्रास्त्रकोविदैः
तत्र यद्वृत्तमेतस्य शत्रुघ्नस्य मनोहरम् । वात्स्यायन शृणुष्वैतत्पापराशिप्रदाहकम्
रेवातीरमथ प्राप्तो मुनिवृंदनिषेवितम् । नीलरत्नसमूहस्य रसः किं तु पयो मिषात्
तांस्तान्मुनिवरान्सर्वान्प्रणमञ्छूरसेवितः । जगाम हयरत्नस्य पृष्ठतः कामगामिनः
गच्छंस्तत्राश्रमं जीर्णं पलाशपर्णनिर्मितम् । रेवायाजलकल्लोलैः सिक्तं पापहराश्रयम्
तं दृष्ट्वा सुमतिं प्राह सर्वज्ञं नयकोविदम् । शत्रुघ्नः सर्वधर्मार्थकर्मकर्तव्यकोविदः
राजोवाच। मंत्रिन्कथय कस्यायमाश्रमः पुण्यदर्शनः । विचारचतुरश्रेष्ठ वदैतन्मम पृच्छतः