शरत्कोटींदुसंकाशः पुंडरीकनिभेक्षणः । सुधामय सटापुंज विद्युत्कोटिनिभः शुभः
नानारत्नमयैर्दिव्यैः केयूरैः कटकान्वितैः । बाहुभिः कल्पवृक्षस्य शाखौघैरिव सत्फलैः
चतुर्भिः कोमलैर्दिव्यैरन्वितः परमेश्वरः । जपाकुसुमसंकाशैः शोभितः करपंकजैः
शंखचक्रगृहीताभ्यामुद्बाहुभ्यां विराजितः । वरदाभयहस्ताभ्यामितराभ्यां नृकेसरी
श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः । उद्यद्दिनकाराभ्यां च कुण्डलाभ्यां विराजितः
हारकेयूरकटकैर्भूषणैः समलंकृतः । सव्यांगस्थ श्रियायुक्तो राजते नरकेसरी
लक्ष्मीनृसिंहं तं दृष्ट्वा देवताः समहर्षयः । आनन्दाश्रुजलैः सिक्ता हर्षनिर्भरचेतसः
आनंदसिंधुमग्नास्ते नमश्चक्रुर्निरंतरम् । अर्चयामासुरात्मेशं दिव्यपुष्पसमर्पणैः
रत्नकुंभैः सुधापूर्णैरभिषिच्य सनातनम् । वस्त्रैराभरणैर्गंधैः पुष्पैर्धूपैर्म्मनोरमैः
दिव्यैर्निवेदितैर्दीपैरर्च्चयित्वा नृकेसरिम् । तुष्टुवुः स्तवनैर्दिव्यैर्नमश्चक्रुर्म्मुहुर्म्महुः
ततः प्रसन्नो लक्ष्मीशस्तेषामिष्टान्वरान्ददौ । ततो देवगणैः सार्धं सर्व्वेशो भक्तवत्सलः
प्रह्लादं सर्वदैत्यानां चक्रे राजानमव्ययम् । आश्वास्य भक्तं प्रह्लादमभिषिच्य सुरोत्तमैः
ददौ तस्मै वरानिष्टान्भक्तिं चाव्यभिचारिणीम् । ततो देवगणैः सर्वैः स्तूयमानो नृकेसरी
विकीर्णपुष्पवपुभिस्तत्रैवांतरधीयत । ततः सुरगणाः सर्वे स्वंस्वं स्थानं प्रपेदिरे
पुनश्च यज्ञभागान्स्वान्बुभुजुः प्रीतमानसाः । ततो देवाः सगंधर्वा निरातंकाभवंस्तदा
तस्मिन्हते महादैत्ये सर्व एव प्रहर्षिताः । प्रह्लादस्तु तदा चक्रे राज्यं धर्मेण वैष्णवः
हरेः प्रसादाल्लब्धं तु राज्यं वैष्णवसत्तमः । बहुभिर्यज्ञदानाद्यैरर्चयित्वा नृकेसरिम्
काले हरिपदं प्राप योगिगम्यं सनातनम् । एतत्प्रह्लादचरितं ये तु शृण्वंति नित्यशः
ते सर्वेपापनिर्मुक्ता यास्यंति परमां गतिम् । एतत्ते कथितं देवि नृसिंहं वैभवं हरेः । शेषां च वैभवावस्थां शृणु देवि यथाक्रमम्
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां सहिंतायामुत्तरखंडे उमामहेश्वरसंवादे नृसिंहप्रादुर्भावोनामाष्टत्रिंशदधिकद्विशततमोऽध्यायः
श्रीमहादेव उवाच- अथ वर्षसहस्रांते सर्वलोकमहेश्वरम् । अदितिर्जनयामास वामनं विष्णुमच्युतम्
श्रीवत्सकौस्तुभोरस्कं पूर्णेंदुसदृशद्युतिम् । सुन्दरं पुंडरीकाक्षमतिखर्वतनुं हरिम्
वटुवेषधरं देवं सर्ववेदांगगोचरम् । मेखलाजिनदण्डादि चिह्नैरंकितमीश्वरम्
तं दृष्ट्वा देवताः सर्वे शतक्रतुपुरोगमाः । स्तुत्वा महर्षिभिः सार्द्धं नमश्चक्रुर्महौजसम्
ततः प्रसन्नो भगवान्प्रोवाच सुरसत्तमान् । वामन उवाच- किं कर्तव्यं मया चाद्य तद्ब्रवीथ सुरोत्तमाः
श्रीशंकर उवाच-। ततः प्रहृष्टास्त्रिदशास्तमूचुः परमेश्वरम् । देवा ऊचुः । अस्मिन्काले बलेर्यज्ञो वर्त्तते मधुसूदन
अप्रत्याख्यानकालोऽयं तस्य दैत्यपतेः प्रभो । याचित्वा त्रिदिवं लोकं तन्नस्त्वं दातुमर्हसि
शंकर उवाच- इत्युक्तास्त्रिदशैस्सर्वैराजगाम बलिं हरिः । यागदेशे समासीनमृषिभिस्सार्द्धमष्टभिः
अभ्यागतं तु तं दृष्ट्वा सहसोत्थाय दैत्यराट् । अभ्यागतः स्वयं विष्णुरितिहास समन्वितः
पूजयामास विधिना निवेश्य कुसुमासने । प्रणिपत्य नमस्कृत्य प्राह गद्गदया गिरा