कपे त्वया महत्कर्म कृतं यद्भटपातनम् । क्षणं तिष्ठसि चेत्कुर्वे तव प्राणवियोजनम्
एवमुक्त्वा हनूमंतं प्रजघान स दुर्मतिः । त्रिशूलेन सुतीक्ष्णेन ज्वलत्पावककांतिना
तदागतं त्रिशूलं च मुखे जग्राह वीर्यवान् । चूर्णयामास सकलं सर्वलोहविनिर्मितम्
चूर्णयित्वा त्रिशूलं तदायसं दैत्यमोचितम् । जघान तं चपेटाभिर्बह्वीभिर्हनुमान्बली
स आहतः कपीन्द्रेण चपेटाभिरितस्ततः । व्यथितो व्यसृजन्मायां सर्वलोकभयंकरीम्
तदा तमोभवत्तीव्रं यत्र को वा न लक्ष्यते । यत्र स्वीयो न पारक्यो विदामास जनान्बहून्
शिलाः पर्वतशृंगाभाः पतंति सुभटोपरि । ताभिर्हतास्तु ते सर्वे व्याकुला अथ जज्ञिरे
विद्युतो विलसंत्यत्र गर्जंति जलदा घनम् । वर्षंति पूयरुधिरं मुंचंति समलं जलम्
आकाशात्पतमानानि कबंधानि बहूनि च । दृश्यंते छिन्नशीर्षाणि सकुंडलयुतानि च
नग्ना विरूपाः सुभृशं कीर्णकेशाः सुदुर्मुखाः । दृश्यंते सर्वतो दैत्या दारुणा भयकारिणः
तदा व्याकुलिता लोकाः परस्परभयाकुलाः । पलायनपरा जाता महोत्पातममंसत
तदा शत्रुघ्न आयातो रथे स्थित्वा महायशाः । श्रीरामस्मरणं कृत्वा चापे संधाय सायकान्
तां मायां स विधूयाथ मोहनास्त्रेण वीर्यवान् । शरधाराः किरन्व्योम्नि ववर्ष समरेसुरम्
तदादिशः प्रसेदुस्ता रविस्त्वपरिवेषवान् । मेघा यथागतं याता विद्युतः शांतिमागताः
तदा विमानं पुरतो दृश्यते राक्षसैर्युतम् । छिंधि भिंधीति भाषाभिर्व्याकुलं सुतरां महत्
बाणाश्च शतसाहस्राः स्वर्णपुंखैश्च शोभिताः । पेतुर्विमाने नभसि स्थिते कामगमे मुहुः
तदा भग्नं विमानं हि दृश्यते न तदुच्चकैः । स्वपुरी खण्डमेकत्र भग्नांगमिव भूतले
तदा प्रकुपितो दैत्यो बाणान्धनुषि संदधे । तैर्बाणैर्विकिरन्रामभ्रातरं चाभिगर्जितः
ते बाणाः शतशस्तस्य लग्ना वपुषि भूरिशः । शोभामापुः शोणितौघान्वहंतस्तीक्ष्णवक्त्रिणः
शत्रुघ्नः परया शक्त्या संयुक्तो वायुदैवतम् । अस्त्रं धनुषि चाधत्त राक्षसानां प्रकम्पनम्
तेनास्त्रेण विमानात्खात्पतन्तो मुक्तमूर्धजाः । दृश्यंते भूतवेतालसंघा इव नभश्चराः
तदस्त्रं रघुनाथस्य भ्रात्रा मुक्तं विलोक्य सः । अस्त्रं च पाशुपत्यं स चापे धाद्दनुजात्मजः
ततः प्रवृत्ता वेताला भूताः प्रेतनिशाचराः । कपालकर्तरीयुक्ताः पिबन्तः शोणितं बहु
ते वै शत्रुघ्नवीराणां रुधिराणि पपुर्मुदा । जीवतामपि दुर्वाराः कर्तरीपाणिशोभिताः
तदस्त्रं व्याप्नुवद्दृष्ट्वा सर्ववीरप्रभंजनम् । मुमोच तन्निरासाय चास्त्रं नारायणाभिधम्
नारायणास्त्रं तान्सर्वान्वारयामास तत्क्षणात् । ते सर्वे विलयं प्रापुर्निशाचरप्रणोदिताः
तदा क्रुद्धो निशाचारी विद्युन्माली समाददे । त्रिशूलं निशितं घोरं शत्रुघ्नं हंतुमुल्बणम्
शूलहस्तं समायांतं विद्युन्मालिनमाहवे । सायकैः प्राहरत्तस्य भुजे त्वर्धशशिप्रभैः
तैर्बाणैश्छिन्नहस्तः स शिरसा हंतुमुद्यतः । हतोसि याहि शत्रुघ्न कस्त्वां त्राता भविष्यति
इति ब्रुवाणं तरसा चिच्छेद शितसायकैः । मस्तकं तस्य बलिनः शूरस्य सह कुंडलम्