ते बाणा हृदि तस्याशु लग्ना रागं बतासृजन् । वैष्णवस्य यथा स्वांते गुणा विष्णोर्मनोहराः
तद्बाणवेधदुःखार्तो विद्युन्माली सुदुर्मदः । जग्राह मुद्गरं घोरं पुष्कलं हंतुमुद्यतः
मुद्गरः प्रहितस्तेन विद्युन्माल्यभिधेन हि । हृदि लग्नोसृजच्छीघ्रं कश्मलं तदकारयत्
मुद्गरप्रहतो वीरः कंपमानः सवेपथुः । पपात स्यंदनोपस्थे पुष्कलः शत्रुतापनः
उग्रदंष्ट्रोऽथ तद्भ्राता लक्ष्मीनिधिमयोधयत् । शस्त्रास्त्रैर्बहुधा मुक्तैर्वीरप्राणहृतिंकरैः
पुष्कलस्तत्क्षणात्प्राप्य संज्ञां राक्षसमब्रवीत् । धन्योसि राक्षसश्रेष्ठ महीयांस्ते पराक्रमः
पश्येदानीं ममाप्युच्चैः प्रतिज्ञां शूरमानिताम् । विमानात्पातयाम्यद्य भूमौ त्वां शितसायकैः
इत्युक्त्वा निशितं बाणं समगृह्णाद्दुरासदम् । ज्वलंतमग्नितेजस्कं महौदार्यसमन्वितम्
स यावत्तत्प्रतीकर्तुं विधत्ते स्वपराक्रमम् । तावद्धृदिगतोऽत्युग्रस्तीक्ष्णधारः ससायकः
तेन बाणेन विभ्रांतो भ्रमच्चित्तः स राक्षसः । पपात कामगोपस्थाद्भूमौ विगतचेतनः
उग्रदंष्ट्रेण वै दृष्टः पतमानो निजाग्रजः । गृहीत्वा तं विमानांतर्निनाय रिपुशंकितः
प्राह चारिं महारोषात्पुष्कलं बलिनां वरम् । मद्भ्रातरं पातयित्वा कुत्र यास्यसि दुर्मते
मां वै युधि विनिर्जित्य गंतासि जयमुत्तमम् । स्थिते मयि तव स्वांते जयाशा विनिवर्त्य ताम्
एवं ब्रुवंतं तरसा जघान दशभिः शरैः । हृदये तस्य दुष्टस्य रोषपूरितलोचनः
स ताडितो दशशरैः पुष्कलेन महात्मना । चुक्रोध हृदि दुर्बुद्धिस्तं हंतुमुपचक्रमे
दंतान्निष्पिष्य सक्रोधो मुष्टिमुद्यम्य चाहनत् । व्यनदद्वज्रनिर्घातपातशंकां सृजन्हृदि
मुष्टिनाभिहतो वीरः पुष्कलः परमास्त्रवित् । नाकंपत विनिष्पेषं वांछंस्तस्य दुरात्मनः
वत्सदंतान्महातीक्ष्णान्मुमोच हृदि सायकान् । तैर्बाणैर्व्यथितो दैत्यस्त्रिशूलं तु समाददे
जाज्वल्यमानं त्रिशिखं ज्वालामालातिभीषणम् । लग्नं हृदि महावीर पुष्कलस्य तु दारुणम्
मूर्च्छितस्तेन शूलेन निहतो धन्विसत्तमः । कश्मलं परमं प्राप्तः पपात स्यंदनोपरि
मूर्च्छां प्राप्तं तमाज्ञाय हनूमान्पवनात्मजः । कोपव्याकुलितस्वांतो बभाषे तं तु राक्षसम्
कुत्र गच्छसि दुर्बुद्धे मयि योद्धरि संस्थिते । त्वां हन्मि चरणाघातैर्वाजिहर्तारमागतम्
एवमुक्त्वा महादैत्याञ्जघान परसैनिकान् । विमानस्थान्नखाग्रेण दारयन्नभसि स्थितः
लांगूलेनाहताः केचित्केचित्पादतला हताः । बाहुभ्यां दारिताः केचित्पवनस्य तनूभुवा
नश्यंति केचिन्निहताः केचिन्मूर्च्छंति संहताः । पलायंते पदाघातभयपीडाहतास्ततः
अनेके निहतास्तत्र राक्षसाश्चातिदारुणाः । छिन्ना भिन्ना द्विधा जाताः पवनस्य सुतेन वै
कामगंतुविमानं तद्भिन्नप्राकारतोरणम् । हाहा कुर्वद्भिरसुरैः समंतात्परिवारितम्
हनूमति महाशूरे क्षणं भूमौ क्षणं दिवि । इतस्ततः प्रदृश्येत कामयानं दुरासदम्
यत्रयत्र विमानं तत्तत्रतत्र समीरजः । प्रहरन्नेव दृश्येत कामरूपधरः कपिः
एवं तदाकुलीभूते विमानस्थे महाजने । उग्रदंष्ट्रस्तु दैत्येंद्रो हनूमंतमुपेयिवान्