पुष्कल उवाच। विकत्थनं न कुर्वंति संग्रामे सुभटा नराः । पराक्रमं दर्शयंति निजशस्त्रास्त्रवर्षणैः
रावणो निहतो येन ससुहृत्स्वजनैर्वृतः । तस्य वाजिनमाहृत्य कुत्र गंतासि दुर्मद
पतिष्यसि त्वं शत्रुघ्नबाणैः कोदंडनिर्गतैः । त्वामत्स्यंति शिवा भूमौ पतितं प्राणवर्जितम्
मा गर्ज दुष्ट रामस्य सेवके मयि संस्थिते । गर्जंति सुभटा युद्धे शत्रुं जित्वा महोदयात्
शेष उवाच। एवं ब्रुवंतं तं वीरं पुष्कलं रणदुर्मदम् । जघान शक्त्या सुभृशं हृदि राक्षससत्तमः
आयांतीं तां महाशक्तिमायसीं कांचनाश्रिताम् । चिच्छेद त्रिभिरत्युग्रैः शितैर्बाणैः स पुष्कलः
सा त्रिधा ह्यपतद्भूमौ विशिखैर्निष्प्रभीकृता । पतंती विरराजासौ विष्णोः शक्तित्रयीव किम्
तां छिन्नां शक्तिकां दृष्ट्वा राक्षसः परतापनः । जग्राह शूलं तरसा त्रिशिखं लोहनिर्मितम्
तीक्ष्णाग्रं ज्वलनप्रख्यं राक्षसेंद्रो व्यमोचयत् । आयांतं तिलशश्चक्रे बाणैः पुष्कलसंज्ञितः
छित्त्वा त्रिशूलं तरसा राघवस्य हि सेवकः । पुष्कलश्चाप आधत्त बाणांस्तीक्ष्णान्मनोजवान्
ते बाणा हृदि तस्याशु लग्ना रागं बतासृजन् । वैष्णवस्य यथा स्वांते गुणा विष्णोर्मनोहराः
तद्बाणवेधदुःखार्तो विद्युन्माली सुदुर्मदः । जग्राह मुद्गरं घोरं पुष्कलं हंतुमुद्यतः
मुद्गरः प्रहितस्तेन विद्युन्माल्यभिधेन हि । हृदि लग्नोसृजच्छीघ्रं कश्मलं तदकारयत्
मुद्गरप्रहतो वीरः कंपमानः सवेपथुः । पपात स्यंदनोपस्थे पुष्कलः शत्रुतापनः
उग्रदंष्ट्रोऽथ तद्भ्राता लक्ष्मीनिधिमयोधयत् । शस्त्रास्त्रैर्बहुधा मुक्तैर्वीरप्राणहृतिंकरैः
पुष्कलस्तत्क्षणात्प्राप्य संज्ञां राक्षसमब्रवीत् । धन्योसि राक्षसश्रेष्ठ महीयांस्ते पराक्रमः
पश्येदानीं ममाप्युच्चैः प्रतिज्ञां शूरमानिताम् । विमानात्पातयाम्यद्य भूमौ त्वां शितसायकैः
इत्युक्त्वा निशितं बाणं समगृह्णाद्दुरासदम् । ज्वलंतमग्नितेजस्कं महौदार्यसमन्वितम्
स यावत्तत्प्रतीकर्तुं विधत्ते स्वपराक्रमम् । तावद्धृदिगतोऽत्युग्रस्तीक्ष्णधारः ससायकः
तेन बाणेन विभ्रांतो भ्रमच्चित्तः स राक्षसः । पपात कामगोपस्थाद्भूमौ विगतचेतनः
उग्रदंष्ट्रेण वै दृष्टः पतमानो निजाग्रजः । गृहीत्वा तं विमानांतर्निनाय रिपुशंकितः
प्राह चारिं महारोषात्पुष्कलं बलिनां वरम् । मद्भ्रातरं पातयित्वा कुत्र यास्यसि दुर्मते
मां वै युधि विनिर्जित्य गंतासि जयमुत्तमम् । स्थिते मयि तव स्वांते जयाशा विनिवर्त्य ताम्
एवं ब्रुवंतं तरसा जघान दशभिः शरैः । हृदये तस्य दुष्टस्य रोषपूरितलोचनः
स ताडितो दशशरैः पुष्कलेन महात्मना । चुक्रोध हृदि दुर्बुद्धिस्तं हंतुमुपचक्रमे
दंतान्निष्पिष्य सक्रोधो मुष्टिमुद्यम्य चाहनत् । व्यनदद्वज्रनिर्घातपातशंकां सृजन्हृदि
मुष्टिनाभिहतो वीरः पुष्कलः परमास्त्रवित् । नाकंपत विनिष्पेषं वांछंस्तस्य दुरात्मनः
वत्सदंतान्महातीक्ष्णान्मुमोच हृदि सायकान् । तैर्बाणैर्व्यथितो दैत्यस्त्रिशूलं तु समाददे
जाज्वल्यमानं त्रिशिखं ज्वालामालातिभीषणम् । लग्नं हृदि महावीर पुष्कलस्य तु दारुणम्
मूर्च्छितस्तेन शूलेन निहतो धन्विसत्तमः । कश्मलं परमं प्राप्तः पपात स्यंदनोपरि