यः शूद्रः कपिलां गां वै पयोबुद्ध्यानुपालयेत् । तस्य पापं ममैवास्तु चेत्कुर्यामनृतं वचः
ब्राह्मणीं गच्छते मोहाच्छूद्रः कामविमोहितः । तस्य पापं ममैवास्तु चेत्कुर्यामनृतं वचः
यद्घ्राणान्नरकं गच्छेत्स्पर्शनाच्चापि रौरवम् । तां पिबेन्मदिरां यो वा जिह्वास्वादेन लोलुपः
तस्य यज्जायते पापं तन्ममैवास्तु निश्चितम् । चेन्न कुर्यां प्रतिज्ञातं सत्यं रामकृपाबलात्
एवमुक्ते महावीरैर्योद्धारस्तरसा युताः । चक्रुः प्रतिज्ञां महतीं स्वपराक्रमशालिनीम्
शत्रुघ्नोऽपि व्यधात्तत्र प्रतिज्ञां पश्यतां नृणाम् । साधुसाधु प्रशंसन्वै तान्वीरान्युद्धकोविदान्
कथयामि पुरो वः स्वां प्रतिज्ञां सत्त्वशोभिताम् । तच्छृण्वंतु महाभागा युद्धोत्साहसमन्विताः
चेत्तस्य शिर आहत्य पातयामि न सायकैः । विमानाच्च कबंधाच्च भिन्नं छिन्नं च भूतले
यत्पापं कूटसाक्ष्येण यत्पापं स्वर्णचौर्यतः । यत्पापं ब्रह्मनिंदायां तन्ममास्त्वद्य निश्चयात्
इति शत्रुघ्नसद्वाक्यं श्रुत्वा ते वीरपूजिताः । धन्योसि राघवभ्रातः कस्त्वदन्यो परो भवेत्
त्वया वै निहतो दैत्यो देवदानवदुःखदः । लवणो नाम लोकेश मधुपुत्रो महाबलः
कोयं वै राक्षसो दुष्टः क्व चास्य बलमल्पकम् । करिष्यसि क्षणादेव तस्य नाशं महामते
इत्युक्त्वा ते महावीराः सज्जीभूता रणांगणे । प्रतिज्ञां स्वामृतां कर्तुं ययुस्ते राक्षसं मुदा
शेष उवाच। रथैः सदश्वैः शोभाढ्यैः सर्वशस्त्रास्त्रपूरितैः । नानारत्नसमायुक्तैर्ययुस्ते राक्षसाधमम्
तान्दृष्ट्वा कामगे याने स्थितः प्रोवाच राक्षसः । मेघगंभीरया वाचा तर्जयन्निव भूरिशः
मायां तु सुभटा योद्धुं गच्छंतु निजमंदिरम् । मा त्यजंतु स्वकान्प्राणान्न मोक्ष्ये वाजिनं वरम्
विद्युन्मालीति विख्यातो रावणस्य सुहृत्सखा । मत्सख्युः प्रेतभूतस्य निष्कृतिं कर्तुमेयिवान्
क्वासौ रामो य आहत्य सखायं रावणं गतः । तस्य भ्रातापि कुत्रास्ते सर्वशूरशिरोमणिः
तं हत्वा निष्कृतिं तस्य प्राप्स्ये रामस्य चानुजम् । पिबन्रुधिरमुद्भूतं कंठनालस्य बुद्बुदैः
इति वाक्यं समाकर्ण्य योधानां प्रवरोत्तमः । पुष्कलो निजगादैनं वीर्यशौर्यसमन्वितम्
पुष्कल उवाच। विकत्थनं न कुर्वंति संग्रामे सुभटा नराः । पराक्रमं दर्शयंति निजशस्त्रास्त्रवर्षणैः
रावणो निहतो येन ससुहृत्स्वजनैर्वृतः । तस्य वाजिनमाहृत्य कुत्र गंतासि दुर्मद
पतिष्यसि त्वं शत्रुघ्नबाणैः कोदंडनिर्गतैः । त्वामत्स्यंति शिवा भूमौ पतितं प्राणवर्जितम्
मा गर्ज दुष्ट रामस्य सेवके मयि संस्थिते । गर्जंति सुभटा युद्धे शत्रुं जित्वा महोदयात्
शेष उवाच। एवं ब्रुवंतं तं वीरं पुष्कलं रणदुर्मदम् । जघान शक्त्या सुभृशं हृदि राक्षससत्तमः
आयांतीं तां महाशक्तिमायसीं कांचनाश्रिताम् । चिच्छेद त्रिभिरत्युग्रैः शितैर्बाणैः स पुष्कलः
सा त्रिधा ह्यपतद्भूमौ विशिखैर्निष्प्रभीकृता । पतंती विरराजासौ विष्णोः शक्तित्रयीव किम्
तां छिन्नां शक्तिकां दृष्ट्वा राक्षसः परतापनः । जग्राह शूलं तरसा त्रिशिखं लोहनिर्मितम्
तीक्ष्णाग्रं ज्वलनप्रख्यं राक्षसेंद्रो व्यमोचयत् । आयांतं तिलशश्चक्रे बाणैः पुष्कलसंज्ञितः
छित्त्वा त्रिशूलं तरसा राघवस्य हि सेवकः । पुष्कलश्चाप आधत्त बाणांस्तीक्ष्णान्मनोजवान्