दुकूलवस्त्रसहितां दिव्यमालानुलेपनाम् । तां दृष्ट्वा देवदेवस्य प्रियां सर्वे दिवौकसः
ऊचुः प्रांजलयो देवीं प्रसन्नं कुरुते प्रियम् । त्रैलोक्यस्याभयं स्वामी यथा दद्यात्तथा कुरु
रुद्र उवाच- इत्युक्ता सहसा देवी प्रियं प्राप्य जनार्दनम् । प्रणिपत्य नमस्कृत्य प्रसीदेति उवाच तम्
तां दृष्ट्वा महिषीं स्वस्य प्रियां सर्व्वेश्वरो हरिः । रक्षःशरीरजं क्रोधं तत्याज प्रीतवत्क्षणात्
अंकमादाय तां देवीं समाश्लिष्य दयानिधिः । कृपासुधार्द्रदृष्ट्या वै निरैक्षत सुरान्हरिः
ततो जयजयेत्युच्चैः स्तुवतां नमतां तदा । तद्दयादृष्टिदृष्टानां सानंदः संभ्रमोऽभवत्
ततो देवगणाः सर्वे हर्षनिर्भरमानसाः । ऊचुः प्रांजलयो देवं नमस्कृत्य जगत्पतिम्
देवगणा ऊचुः - द्रष्टुमत्यद्भुतं तेजो न शक्तास्ते जगत्पते । अत्यद्भुतमिदं रूपं बहुबाहुपदांकितम्
जगत्त्रयसमाक्रांतं तेजस्तीक्ष्णतरं तव । द्रष्टुं स्थातुं न शक्ताः स्मः सर्व्व एव दिवौकसः
महादेव उवाच-। इत्यर्थितस्तु विबुधैस्तेजस्तदतिभीषणम् । उपसंहृत्य देवेशो बभूव सुखदर्शनः
शरत्कोटींदुसंकाशः पुंडरीकनिभेक्षणः । सुधामय सटापुंज विद्युत्कोटिनिभः शुभः
नानारत्नमयैर्दिव्यैः केयूरैः कटकान्वितैः । बाहुभिः कल्पवृक्षस्य शाखौघैरिव सत्फलैः
चतुर्भिः कोमलैर्दिव्यैरन्वितः परमेश्वरः । जपाकुसुमसंकाशैः शोभितः करपंकजैः
शंखचक्रगृहीताभ्यामुद्बाहुभ्यां विराजितः । वरदाभयहस्ताभ्यामितराभ्यां नृकेसरी
श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः । उद्यद्दिनकाराभ्यां च कुण्डलाभ्यां विराजितः
हारकेयूरकटकैर्भूषणैः समलंकृतः । सव्यांगस्थ श्रियायुक्तो राजते नरकेसरी
लक्ष्मीनृसिंहं तं दृष्ट्वा देवताः समहर्षयः । आनन्दाश्रुजलैः सिक्ता हर्षनिर्भरचेतसः
आनंदसिंधुमग्नास्ते नमश्चक्रुर्निरंतरम् । अर्चयामासुरात्मेशं दिव्यपुष्पसमर्पणैः
रत्नकुंभैः सुधापूर्णैरभिषिच्य सनातनम् । वस्त्रैराभरणैर्गंधैः पुष्पैर्धूपैर्म्मनोरमैः
दिव्यैर्निवेदितैर्दीपैरर्च्चयित्वा नृकेसरिम् । तुष्टुवुः स्तवनैर्दिव्यैर्नमश्चक्रुर्म्मुहुर्म्महुः
ततः प्रसन्नो लक्ष्मीशस्तेषामिष्टान्वरान्ददौ । ततो देवगणैः सार्धं सर्व्वेशो भक्तवत्सलः
प्रह्लादं सर्वदैत्यानां चक्रे राजानमव्ययम् । आश्वास्य भक्तं प्रह्लादमभिषिच्य सुरोत्तमैः
ददौ तस्मै वरानिष्टान्भक्तिं चाव्यभिचारिणीम् । ततो देवगणैः सर्वैः स्तूयमानो नृकेसरी
विकीर्णपुष्पवपुभिस्तत्रैवांतरधीयत । ततः सुरगणाः सर्वे स्वंस्वं स्थानं प्रपेदिरे
पुनश्च यज्ञभागान्स्वान्बुभुजुः प्रीतमानसाः । ततो देवाः सगंधर्वा निरातंकाभवंस्तदा
तस्मिन्हते महादैत्ये सर्व एव प्रहर्षिताः । प्रह्लादस्तु तदा चक्रे राज्यं धर्मेण वैष्णवः
हरेः प्रसादाल्लब्धं तु राज्यं वैष्णवसत्तमः । बहुभिर्यज्ञदानाद्यैरर्चयित्वा नृकेसरिम्
काले हरिपदं प्राप योगिगम्यं सनातनम् । एतत्प्रह्लादचरितं ये तु शृण्वंति नित्यशः
ते सर्वेपापनिर्मुक्ता यास्यंति परमां गतिम् । एतत्ते कथितं देवि नृसिंहं वैभवं हरेः । शेषां च वैभवावस्थां शृणु देवि यथाक्रमम्
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां सहिंतायामुत्तरखंडे उमामहेश्वरसंवादे नृसिंहप्रादुर्भावोनामाष्टत्रिंशदधिकद्विशततमोऽध्यायः