ददृशे सुभटैः सर्वै रथस्थैः शौर्यशोभितैः । विमानवरमारूढै राक्षसाग्र्यैः समावृतः
दुमुर्खा विकरालास्या लंबदंष्ट्रा भयानकाः । राक्षसास्तत्र दृश्यंते सैन्यग्रासाय चोद्यताः
तदा तं वेदयामासुः शत्रुघ्नं नृवरोत्तमम् । हयो नीतो न जानीमः खे विमानविलासिना
तमसा व्याकुलान्कृत्वा वीरानस्मान्समाययौ । जग्राह नृपशार्दूल हयं कुरु यथोचितम्
शत्रुघ्नस्तद्वचः श्रुत्वा महारोषसमावृतः । कोऽस्त्येष राक्षसो यो मे हयं जग्राह वीर्यवान्
विमानं तत्पतत्वद्य मद्बाणव्रजनिर्हतम् । पतत्वद्य शिरस्तस्य क्षुरप्रैर्मम वैरिणः
सज्जीयंतां रथाः सर्वैर्महाशस्त्रास्त्रपूरिताः । यांतु तं प्रतिसंहर्तुं योद्धारो वाजिहारिणम्
इत्युक्त्वा रोषताम्राक्ष उवाच निजमंत्रिणम् । नयानयविदं शूरं युद्धकार्यविशारदम्
शत्रुघ्न उवाच। मंत्रिन्कथय के योज्या राक्षसस्य वधोद्यताः । महाशस्त्रा महाशूराः परमास्त्रविदुत्तमाः
कथयाशु विचार्यैवं तत्करोमि भवद्वचः । वीरान्कथय तस्यैवं योग्यान्सर्वास्त्रकोविदान्
एतच्छ्रुत्वा तु सचिवः प्राह वाक्यं यथोचितम् । वीरान्रणवरे योग्यान्दर्शयंस्तरसा नतान्
सुमतिरुवाच। जेतुं गच्छतु तद्रक्षः समरे विजयोद्यतः । महाशस्त्रास्त्रसंयुक्तः पुष्कलः परतापनः
तथा लक्ष्मीनिधिर्यातु शस्त्रसंघसमन्वितः । करोतु तस्य यानस्य भंगं तीक्ष्णैः स्वसायकैः
हनूमान्धृष्टकर्मात्र राक्षसैर्योधितुं क्षमः । करोतु मुखपुच्छाभ्यां ताडनं रक्षसां प्रभो
वानरा अपि ये वीरा रणकर्मविशारदाः । गच्छंतु तेऽखिला योद्धुं तववाक्यप्रणोदिताः
सुमदश्च सुबाहुश्च प्रतापाग्र्यश्च सत्तमाः । गच्छंतु सायकैस्तीक्ष्णैस्तान्योद्धुं राक्षसाधमान्
भवानपि महाशस्त्रपरिवारो रथे स्थितः । करोतु युद्धे विजयं राक्षसं हंतुमुद्यतः
एतन्मम मतं राजन्ये योधास्तत्प्रमर्दनाः । ते गच्छंतु रणे शूराः किमन्यैर्बहुभिर्भटैः
इत्युक्तवति वीराग्र्येऽमात्ये सुमतिसंज्ञिके । शत्रुघ्नः कथयामास वीरान्संग्रामकोविदान्
भो वीराः पुष्कलाद्या ये सर्वशस्त्रास्त्रकोविदाः । ते वदंतु प्रतिज्ञां वै मत्पुरो राक्षसार्दने
कृत्वा प्रतिज्ञां विपुलां स्वपराक्रमशोभिनीम् । गच्छंतु रणमध्ये हि भवंतो बलसंयुताः
इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महाबलाः । स्वां स्वां प्रतिज्ञां महतीं चक्रुस्ते तेजसान्विताः
तत्रादौ पुष्कलो वीरः श्रुत्वा वाक्यं महीपतेः । परमोत्साहसंपन्नः प्रतिज्ञामूचिवानिमाम्
पुष्कल उवाच। शृणुष्व नृपशार्दूल मत्प्रतिज्ञां पराक्रमात् । विहितां सर्वलोकानां शृण्वतां परमाद्भुताम्
चेन्न कुर्यां क्षुरप्राग्रैस्तीक्ष्णैः कोदंडनिर्गतैः । दैत्यं मूर्च्छासमाक्रांतं कीर्णकेशाकुलाननम्
कन्या स्वभोक्तुर्यत्पापं यत्पापं देवनिंदने । तत्पापं मम वै भूयाच्चेत्कुर्यां स्ववचोऽनृतम्
यदिमद्बाणनिर्भिन्नाः सैनिकाः सुमहाबलाः । न पतंति महाराज प्रतिज्ञां तत्र मे शृणु
विष्ण्वीशयोर्विभेदं यः शिवशक्त्योः करोत्यपि । तत्पापं मम वै भूयाच्चेन्न कुर्यामृतं वचः
सर्वं मद्वाक्यमित्युक्तं रघुनाथपदांबुजे । भक्तिर्मे निश्चला यास्ति सैव सत्यं करिष्यति
पुष्कलस्य प्रतिज्ञां तां श्रुत्वा लक्ष्मीनिधिर्नृपः । प्रतिज्ञां व्यदधात्सत्यां स्वपराक्रमशोभिताम्