शेष उवाच। गच्छत्सु रथिवर्येषु शत्रुघ्नादिषु भूरिषु । महाराजेषु सर्वेषु रथकोटियुतेषु च
अकस्मादभवन्मार्गे तमः परमदारुणम् । यस्मिन्स्वीयो न पारक्यो लक्ष्यते ज्ञातिभिर्नरैः
रजसा व्यावृतं व्योम विद्युत्स्तनितसंकुलम् । एतादृशे तु संमर्दे महाभयकरे ततः
मेघा वर्षंति रुधिरं पूयामेध्यादिकं बहु । अत्याकुला बभूवुस्ते वीराः परमवैरिणः
आकुलीकृतलोके तु किमिदं किमिति स्थितिः । तमोव्याप्तानि लोकानां चक्षूंषि प्रथितौजसाम्
जहाराश्वं रावणस्य सुहृत्पातालसंस्थितः । विद्युन्मालीति विख्यातो राक्षसश्रेणिसंवृतः
कामगे सुविमाने तु सर्वायसनिषेविणि । आरूढोऽश्वं तु वीराणां भयं कुर्वञ्जहार ह
मुहूर्तात्तत्तमो नष्टमाकाशं विमलं बभौ । वीराः शत्रुघ्नमुख्यास्ते प्रोचुः कुत्र हयोऽस्ति सः
ते सर्वे हयराजं तु लोकयंतः परस्परम् । ददृशुर्न यदा वाहं हाहाकारस्तदाभवत्
कुत्राश्वो हयमेधस्य केन नीतः कुबुद्धिना । इति वाचमवोचंस्ते तावत्स दनुजेश्वरः
ददृशे सुभटैः सर्वै रथस्थैः शौर्यशोभितैः । विमानवरमारूढै राक्षसाग्र्यैः समावृतः
दुमुर्खा विकरालास्या लंबदंष्ट्रा भयानकाः । राक्षसास्तत्र दृश्यंते सैन्यग्रासाय चोद्यताः
तदा तं वेदयामासुः शत्रुघ्नं नृवरोत्तमम् । हयो नीतो न जानीमः खे विमानविलासिना
तमसा व्याकुलान्कृत्वा वीरानस्मान्समाययौ । जग्राह नृपशार्दूल हयं कुरु यथोचितम्
शत्रुघ्नस्तद्वचः श्रुत्वा महारोषसमावृतः । कोऽस्त्येष राक्षसो यो मे हयं जग्राह वीर्यवान्
विमानं तत्पतत्वद्य मद्बाणव्रजनिर्हतम् । पतत्वद्य शिरस्तस्य क्षुरप्रैर्मम वैरिणः
सज्जीयंतां रथाः सर्वैर्महाशस्त्रास्त्रपूरिताः । यांतु तं प्रतिसंहर्तुं योद्धारो वाजिहारिणम्
इत्युक्त्वा रोषताम्राक्ष उवाच निजमंत्रिणम् । नयानयविदं शूरं युद्धकार्यविशारदम्
शत्रुघ्न उवाच। मंत्रिन्कथय के योज्या राक्षसस्य वधोद्यताः । महाशस्त्रा महाशूराः परमास्त्रविदुत्तमाः
कथयाशु विचार्यैवं तत्करोमि भवद्वचः । वीरान्कथय तस्यैवं योग्यान्सर्वास्त्रकोविदान्
एतच्छ्रुत्वा तु सचिवः प्राह वाक्यं यथोचितम् । वीरान्रणवरे योग्यान्दर्शयंस्तरसा नतान्
सुमतिरुवाच। जेतुं गच्छतु तद्रक्षः समरे विजयोद्यतः । महाशस्त्रास्त्रसंयुक्तः पुष्कलः परतापनः
तथा लक्ष्मीनिधिर्यातु शस्त्रसंघसमन्वितः । करोतु तस्य यानस्य भंगं तीक्ष्णैः स्वसायकैः
हनूमान्धृष्टकर्मात्र राक्षसैर्योधितुं क्षमः । करोतु मुखपुच्छाभ्यां ताडनं रक्षसां प्रभो
वानरा अपि ये वीरा रणकर्मविशारदाः । गच्छंतु तेऽखिला योद्धुं तववाक्यप्रणोदिताः
सुमदश्च सुबाहुश्च प्रतापाग्र्यश्च सत्तमाः । गच्छंतु सायकैस्तीक्ष्णैस्तान्योद्धुं राक्षसाधमान्
भवानपि महाशस्त्रपरिवारो रथे स्थितः । करोतु युद्धे विजयं राक्षसं हंतुमुद्यतः
एतन्मम मतं राजन्ये योधास्तत्प्रमर्दनाः । ते गच्छंतु रणे शूराः किमन्यैर्बहुभिर्भटैः
इत्युक्तवति वीराग्र्येऽमात्ये सुमतिसंज्ञिके । शत्रुघ्नः कथयामास वीरान्संग्रामकोविदान्
भो वीराः पुष्कलाद्या ये सर्वशस्त्रास्त्रकोविदाः । ते वदंतु प्रतिज्ञां वै मत्पुरो राक्षसार्दने