अमात्यमादिदेशाथ सर्वं राजधनं महत् । गृहीत्वा तु मया सार्द्धमागच्छ त्वरया युतः
यास्येऽहं रघुनाथस्य हयं पालयितुं वरम् । कर्तुं च रामपादाब्जपरिचर्यां सुदुर्लभाम्
इत्युक्त्वा निर्जगामाथ शत्रुघ्नं प्रति सैनिकैः । तावत्पुरीमथ प्राप्तो रामभ्राता ससैनिकः
वीरा गर्जंति प्रबला रथाः सुनिनदंति च । जयशंखस्वनास्तत्र वेणुनादाश्च सर्वतः
आगत्य सत्यवान्राजा मंत्रिभिः सुसमन्वितः । चरणे प्रणिपत्यास्मै राज्यं प्रादान्महाधनम्
शत्रुघ्नस्तं तु राजानं ज्ञात्वा राममनुव्रतम् । तद्राज्यं तस्य पुत्राय रुक्मनाम्ने ददौ महत्
हनूमंतं परीरभ्य सुबाहुं रामसेवकम् । अन्यान्वै रामभक्तांश्च परिरभ्य महायशाः
कृतार्थमिव चात्मानं मेने सत्यसमन्वितः । ननंद चेतसि तदा शत्रुघ्नेन समन्वितः
हयस्तावद्गतो दूरं वीरैः सुपरिरक्षितः । शत्रुघ्नस्तेन भूपेन ययौ वीरसमन्वितः
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे सत्यवत्समागमोनाम द्वात्रिंशोऽध्यायः
शेष उवाच। गच्छत्सु रथिवर्येषु शत्रुघ्नादिषु भूरिषु । महाराजेषु सर्वेषु रथकोटियुतेषु च
अकस्मादभवन्मार्गे तमः परमदारुणम् । यस्मिन्स्वीयो न पारक्यो लक्ष्यते ज्ञातिभिर्नरैः
रजसा व्यावृतं व्योम विद्युत्स्तनितसंकुलम् । एतादृशे तु संमर्दे महाभयकरे ततः
मेघा वर्षंति रुधिरं पूयामेध्यादिकं बहु । अत्याकुला बभूवुस्ते वीराः परमवैरिणः
आकुलीकृतलोके तु किमिदं किमिति स्थितिः । तमोव्याप्तानि लोकानां चक्षूंषि प्रथितौजसाम्
जहाराश्वं रावणस्य सुहृत्पातालसंस्थितः । विद्युन्मालीति विख्यातो राक्षसश्रेणिसंवृतः
कामगे सुविमाने तु सर्वायसनिषेविणि । आरूढोऽश्वं तु वीराणां भयं कुर्वञ्जहार ह
मुहूर्तात्तत्तमो नष्टमाकाशं विमलं बभौ । वीराः शत्रुघ्नमुख्यास्ते प्रोचुः कुत्र हयोऽस्ति सः
ते सर्वे हयराजं तु लोकयंतः परस्परम् । ददृशुर्न यदा वाहं हाहाकारस्तदाभवत्
कुत्राश्वो हयमेधस्य केन नीतः कुबुद्धिना । इति वाचमवोचंस्ते तावत्स दनुजेश्वरः
ददृशे सुभटैः सर्वै रथस्थैः शौर्यशोभितैः । विमानवरमारूढै राक्षसाग्र्यैः समावृतः
दुमुर्खा विकरालास्या लंबदंष्ट्रा भयानकाः । राक्षसास्तत्र दृश्यंते सैन्यग्रासाय चोद्यताः
तदा तं वेदयामासुः शत्रुघ्नं नृवरोत्तमम् । हयो नीतो न जानीमः खे विमानविलासिना
तमसा व्याकुलान्कृत्वा वीरानस्मान्समाययौ । जग्राह नृपशार्दूल हयं कुरु यथोचितम्
शत्रुघ्नस्तद्वचः श्रुत्वा महारोषसमावृतः । कोऽस्त्येष राक्षसो यो मे हयं जग्राह वीर्यवान्
विमानं तत्पतत्वद्य मद्बाणव्रजनिर्हतम् । पतत्वद्य शिरस्तस्य क्षुरप्रैर्मम वैरिणः
सज्जीयंतां रथाः सर्वैर्महाशस्त्रास्त्रपूरिताः । यांतु तं प्रतिसंहर्तुं योद्धारो वाजिहारिणम्
इत्युक्त्वा रोषताम्राक्ष उवाच निजमंत्रिणम् । नयानयविदं शूरं युद्धकार्यविशारदम्
शत्रुघ्न उवाच। मंत्रिन्कथय के योज्या राक्षसस्य वधोद्यताः । महाशस्त्रा महाशूराः परमास्त्रविदुत्तमाः
कथयाशु विचार्यैवं तत्करोमि भवद्वचः । वीरान्कथय तस्यैवं योग्यान्सर्वास्त्रकोविदान्