तव मय्यस्ति चेच्छ्रद्धा तदा किंचिद्ब्रवीम्यहम् । शृणुष्व नरशार्दूल गदितं मम सादरः
भज श्रीरघुनाथं त्वं कर्मणा मनसा गिरा । नैष्कापट्येन लोकेशं तोषयस्व महामते
स तुष्टो दास्यते सर्वं त्वद्धृदिस्थं मनोरथम् । अज्ञानकृत गोहत्यापापनाशं करिष्यति
रामं स्मरंस्त्वं धर्मात्मन्धेनुं पालय सत्तम । दत्त्वा द्विजाय कनकं पापनिष्कृतिमाप्स्यसि
सुमतिरुवाच। एतच्छ्रुत्वा तु तद्वाक्यमृतंभरनृपस्तदा । विधाय रामस्मरणं पूतात्मा व्रतमाचरत्
पूर्ववत्पालयन्धेनुं जगाम विपिनं महत् । रामनामस्मरन्नित्यं सर्वभूतहिते रतः
तस्मै तुष्टा तु सुरभिः प्रोवाच परितोषिता । राजन्वरय मत्तो वै वरं हृत्स्थं मनोरथम्
तदा प्रोवाच वै राजा पुत्रं देहि मनोरमम् । रामभक्तं पितृरतं स्वधर्मप्रतिपालकम्
तुष्टा दत्त्वा वरं सापि तस्मै राज्ञे सुतार्थिने । जगामादर्शनं देवी कामधेनुः कृपावती
स काले प्राप्तवान्पुत्रं वैष्णवं रामसेवकम् । सत्यवत्संज्ञयायुक्तमकरोत्तत्र तत्पिता
सत्यवंतं सुतं लब्ध्वा पितृभक्तिपरं महान् । परमं हर्षमापेदे शक्रतुल्यपराक्रमम्
स राजा धार्मिकं पुत्रं प्राप्य हर्षेणनिर्भरः । राज्यं तस्मिन्महन्न्यस्य जगाम तपसे वनम्
तत्राराध्य हृषीकेशं भक्तियुक्तेन चेतसा । निर्धूतपापः सतनुरगाद्धरिपदं नृपः
सुमतिरुवाच। असावपि नृपः सौम्य सत्यवान्नाम विश्रुतः । निजधर्मेण लोकेशं रघुनाथमतोषयत्
अस्मै तुष्टो रमानाथो ददौ भक्तिमचंचलाम् । निजांघ्रिपद्मे यजतां दुर्लभां पुण्यकोटिभिः
नित्यं श्रीरघुनाथस्य कथानकमनातुरः । कुरुते सर्वलोकानां पावनं कृपयायुतः
यो न पूजयते देवं रघुनाथं रमापतिम् । स तेन ताड्यते दंडैर्यमस्यापि भयावहैः
अष्टमाद्वत्सरादूर्ध्वमशीतिवत्सरो भवेत् । तावदेकादशी सर्वैर्मानुषैः कारिताऽमुना
तुलसी वल्लभा यस्य कदाचिद्यच्छिरोधराम् । न मुंचति रमानाथ पादपद्मस्रगुत्तमा
ऋषीणामपि पूज्योयमितरेषां कथं नहि । रघुनाथस्मृतिप्रीतिर्धूतपाप्मा हताशुभः
ज्ञात्वायं रामचंद्रस्य वाजिनं परमाद्भुतम् । आगत्य तुभ्यं संदास्यत्येतद्राज्यमकंटकम्
त्वया यद्गदितं राजंस्तत्ते कथितमुत्तमम् । पुनः किं पृच्छसे स्वामिन्नाज्ञापय करोमि तत्
शेष उवाच। गतोऽश्वस्तत्पुरांतस्तु नानाश्चर्यसमन्वितः । तं दृष्ट्वा जनताः सर्वा राज्ञे गत्वा न्यवेदयन्
जनता ऊचुः। कोऽप्यश्वः सितवर्णेन गंगाजलसमेन वै । भाले सौवर्णपत्रेण राजमानः समागतः
तच्छ्रुत्वा वचनं रम्यं जनानां हृद्यमीरितम् । ताः प्रत्याह हसन्भूपो ज्ञायतां कस्य वै हयः
ताश्चैनं कथयामासुः शत्रुघ्नेन प्रपालितः । आयात्यश्वो महीभर्तू रामस्य पुरमध्यतः
रामस्य नाम स श्रुत्वा द्व्यक्षरं सुमनोरमम् । जहर्ष चित्ते सुभृशं गद्गदस्वरचिन्हितः
मयायोध्यापतिर्नित्यं यो रामश्चिन्त्यते हृदि । तस्याश्वः सहशत्रुघ्नः समायातः पुरं मम
हनूमांस्तत्र रामांघ्रिसेवाकर्ता भविष्यति । कदाचिदपि यो रामं न विस्मरति मानसे
गच्छामि यत्र शत्रुघ्नो यत्र मारुतनंदनः । अन्येऽपि यत्र पुरुषा रामपादाब्जसेवकाः