योऽपि देवं हरिं निंदेत्सकृद्दुर्भाग्यवान्नरः । स चापि नरकं पश्येत्पुत्रपौत्रपरीवृतः
तस्माज्ज्ञात्वा हरिं निंदन्गोषु दुःखं समाचरन् । कदापि नरकान्मुक्तिं न प्राप्नोति नरेश्वर
अज्ञानप्राप्तगोहत्या प्रायश्चित्तं तु विद्यते । रामभक्तं तु धीमंतं याहि त्वमृतुपर्णकम्
स वै समदृशः सर्वाञ्छत्रून्मित्राणि पश्यति । तुभ्यं कथिष्यति क्षिप्रं गोवधस्यास्य निष्कृतिम्
तस्य देशांस्त्वमाक्रामंस्तेन निर्वासितः पुरा । वैरिभावं परित्यज्य गच्छ त्वमृतुपर्णकम्
स यद्वदिष्यति क्षिप्रं तत्कुरुष्व समाहितः । यथा त्वत्कृतपापस्य निष्कृतिर्हि भविष्यति
स तु तद्वचनं श्रुत्वा जगाम ऋतुपर्णकम् । रामभक्तं रिपौ मित्रे समदृष्ट्या समंजसम्
स तस्मै कथयामास यज्जातं गोवधादिकम् । तस्य पापस्य निष्कृत्यै ह्युपायं सोऽप्यचिंतयत्
क्षणं ध्यात्वाथ तं राजा ऋतुपर्ण ऋतंभरम् । उवाच प्रहसन्वाक्यं बुद्धिमान्धर्मकोविदः
कोऽहं राजन्मुनीनां वै पुरतः शास्त्रवेदिनाम् । तान्हित्वा किं तु मां प्राप्तो मूर्खंपंडितमानिनम्
तव मय्यस्ति चेच्छ्रद्धा तदा किंचिद्ब्रवीम्यहम् । शृणुष्व नरशार्दूल गदितं मम सादरः
भज श्रीरघुनाथं त्वं कर्मणा मनसा गिरा । नैष्कापट्येन लोकेशं तोषयस्व महामते
स तुष्टो दास्यते सर्वं त्वद्धृदिस्थं मनोरथम् । अज्ञानकृत गोहत्यापापनाशं करिष्यति
रामं स्मरंस्त्वं धर्मात्मन्धेनुं पालय सत्तम । दत्त्वा द्विजाय कनकं पापनिष्कृतिमाप्स्यसि
सुमतिरुवाच। एतच्छ्रुत्वा तु तद्वाक्यमृतंभरनृपस्तदा । विधाय रामस्मरणं पूतात्मा व्रतमाचरत्
पूर्ववत्पालयन्धेनुं जगाम विपिनं महत् । रामनामस्मरन्नित्यं सर्वभूतहिते रतः
तस्मै तुष्टा तु सुरभिः प्रोवाच परितोषिता । राजन्वरय मत्तो वै वरं हृत्स्थं मनोरथम्
तदा प्रोवाच वै राजा पुत्रं देहि मनोरमम् । रामभक्तं पितृरतं स्वधर्मप्रतिपालकम्
तुष्टा दत्त्वा वरं सापि तस्मै राज्ञे सुतार्थिने । जगामादर्शनं देवी कामधेनुः कृपावती
स काले प्राप्तवान्पुत्रं वैष्णवं रामसेवकम् । सत्यवत्संज्ञयायुक्तमकरोत्तत्र तत्पिता
सत्यवंतं सुतं लब्ध्वा पितृभक्तिपरं महान् । परमं हर्षमापेदे शक्रतुल्यपराक्रमम्
स राजा धार्मिकं पुत्रं प्राप्य हर्षेणनिर्भरः । राज्यं तस्मिन्महन्न्यस्य जगाम तपसे वनम्
तत्राराध्य हृषीकेशं भक्तियुक्तेन चेतसा । निर्धूतपापः सतनुरगाद्धरिपदं नृपः
सुमतिरुवाच। असावपि नृपः सौम्य सत्यवान्नाम विश्रुतः । निजधर्मेण लोकेशं रघुनाथमतोषयत्
अस्मै तुष्टो रमानाथो ददौ भक्तिमचंचलाम् । निजांघ्रिपद्मे यजतां दुर्लभां पुण्यकोटिभिः
नित्यं श्रीरघुनाथस्य कथानकमनातुरः । कुरुते सर्वलोकानां पावनं कृपयायुतः
यो न पूजयते देवं रघुनाथं रमापतिम् । स तेन ताड्यते दंडैर्यमस्यापि भयावहैः
अष्टमाद्वत्सरादूर्ध्वमशीतिवत्सरो भवेत् । तावदेकादशी सर्वैर्मानुषैः कारिताऽमुना
तुलसी वल्लभा यस्य कदाचिद्यच्छिरोधराम् । न मुंचति रमानाथ पादपद्मस्रगुत्तमा
ऋषीणामपि पूज्योयमितरेषां कथं नहि । रघुनाथस्मृतिप्रीतिर्धूतपाप्मा हताशुभः