धर्मराज उवाच। राजंस्तव महत्पुण्यं नैतादृक्कस्य भूतले । रघुनाथपदद्वंद्वमकरंद मधुव्रत
त्वत्कीर्ति स्वर्धुनी सर्वान्पापिनो मलसंयुतान् । पुनाति परमाह्लादकारिणी दुष्टतारिणी
तथापि पापलेशस्ते वर्तते नृपसत्तम । येन संयमिनीपार्श्वमागतः पुण्यपूरितः
एकदा तु चरंतीं गां वारयामास वै भवान् । तेन पापविपाकेन निरयद्वारदर्शनम्
इदानीं पापनिर्मुक्तो बहुपुण्यसमन्वितः । भुंक्ष्व भोगान्सुविपुलान्निजपुण्यार्जितान्बहून्
एतेषां करुणावार्धी रघुनाथो सुखं हरन् । संयमिन्या महामार्गे प्रेरयामास वैष्णवम्
नागमिष्यो यदि त्वं वै मार्गेणानेन सुव्रत । अभविष्यत्कथं तेषां निरयात्परिमोचनम्
त्वादृशाः परदुःखेन दुःखिताः करुणालयाः । प्राणिनां दुःखविच्छेदं कुर्वंत्येव महामते
जाबालिरुवाच। एवं वदंतं शमनं प्रणम्य स दिवंगतः । दिव्येन सुविमानेन अप्सरोगणशोभिना
तस्माद्गावोऽनिशं पूज्या मनसापि न गर्हयेत् । गर्हयन्निरयं याति यावदिंद्राश्चतुर्दश
तस्मात्त्वं नृपतिश्रेष्ठ गोपूजां वै समाचर । सा तुष्टा दास्यति क्षिप्रं पुत्रं धर्मपरायणम्
सुमतिरुवाच। तच्छ्रुत्वा धेनुपूजां स पप्रच्छ कथमादरात् । पूजनीया प्रयत्नेन कीदृशं कुरुते नरम्
जाबालि कथयामास धेनुपूजां यथाविधि । प्रत्यहं विपिनं गच्छेच्चारणार्थं व्रती तु गोः
गवे यवांस्तु संभोज्य गोमयस्थान्समाहरेत् । भक्षणीया यवास्ते तु पुत्रकामेन भूपते
सा यदा पिबते तोयं तदा पेयं जलं शुचि । सोच्चैः स्थाने यदा तिष्ठेत्तदानीं चासनस्थितः
दंशान्निवारयेन्नित्यं यवसं स्वयमाहरेत् । एवं प्रकुर्वतः पुत्रं दास्यते धर्मतत्परम्
सुमतिरुवाच। इति वाक्यं समाकर्ण्य पुत्रकाम ऋतंभरः । व्रतं चकार धर्मात्मा धेनुपूजां समाचरन्
प्रत्यहं कुरुते गां वै यवसाद्येन तोषिताम् । दंशान्न्यवारयद्धीमान्यवभक्षकृतादरः
एवं धेनुं पूजयतो गतास्तु दिवसा घनाः । वनमध्ये तृणादींश्च चरंतीमकुतोभयाम्
एकदा नृपतिस्तस्य वनस्य श्रीनिरीक्षणे । न्यस्तदृष्टिः सपरितो बभ्राम स कुतूहली
तदागत्याहनद्गां वै पंचास्यः काननांतरात् । क्रोशंतीं बहुधा दीनां सिंहभारेणदुःखिताम्
तदा नृपः समागत्य विलोक्य निजमातरम् । सिंहेन निहतां पश्यन्रुरोदातीव विह्वलः
स दुःखितः समागत्य जाबालिमुनिसत्तमम् । निष्कृतिं तस्य पप्रच्छ गोवधस्य प्रमादतः
ऋतंभर उवाच। स्वामिंस्त्वदाज्ञया धेनुं पालयन्वनमास्थितः । कुतोप्यागत्य तां सिंहो जघानादृष्टिगोचरः
तस्य पापस्य निष्कृत्यै किं करोमि त्वदाज्ञया । कथं वा व्रतसंपूर्तिर्मम पुत्रप्रदायिनी
इत्युक्तवंतं तं भूपं जगाद मुनिसत्तमः । संत्युपाया महीपाल पापस्यास्यापनुत्तये
ब्रह्मघ्नस्य कृतघ्नस्य सुरापस्य महामते । प्रायश्चित्तानि वर्तंते सर्वपापहराणि च
कृच्छ्रैश्चांद्रायणैर्दानैर्व्रतैः सनियमैर्यमैः । पापानि प्रलयं यांति नियमादनुतिष्ठतः
द्वयोश्च निष्कृतिर्नास्ति पापपुंजकृतोस्तयोः । मत्या गोवधकर्तुश्च नारायणविनिंदितुः
गवां यो मनसा दुःखं वांच्छत्यधमसत्तमः । स याति निरयस्थानं यावदिंद्राश्चतुर्दश