तस्माद्गच्छ महाराज भुंक्ष्व भोगाननेकशः । विमानवरमारुह्य भुंक्ष्व पुण्यमुपार्जितम्
इति वाक्यं समाकर्ण्यध र्मराजस्य तत्पतेः । उवाच धर्मराजानं करुणापूरपूरितः
जनक उवाच। अहं गच्छामि नो नाथ जीवानामनुकम्पया । मदंगवायुना ह्येते सुखं प्राप्ताः स्म संस्थिताः
एतान्मुंचसि चेद्राजन्सर्वान्वै निरयस्थितान् । ततो गच्छामि सुखितः स्वर्गं पुण्यजनाश्रितम्
जाबालिरुवाच। इति वाक्यमथाश्रुत्य जनकं प्रत्युवाच सः । प्रत्येकं निर्दिशञ्जीवान्निरयस्थाननेकशः
धर्म उवाच। अयं मित्र कलत्रं वै विश्वस्तमनुजग्मिवान् । तस्मादेनं लोहशंकौ वर्षायुतमपीपचम्
पश्चादेनं सूकराणां योनौ निक्षिप्य दोषिणम् । मानुषेष्ववतार्योऽयं षंढचिह्नेन चिह्नितः
अनेन परदाराश्च बलादालिगिता मुहुः । तस्मादयं पच्यतेऽत्र रौरवे शतहायनम्
अयं तु परकीयं स्वं मुषित्वा बुभुजे कुधीः । तस्मादस्य करौ छित्त्वा पचेयं पूयशोणिते
अयं सायंतने प्राप्तमतिथिं क्षुधयार्दितम् । वाण्यापि नाकरोत्तस्य पूजनं स्वागतं न च
तस्मादयं पातनीयस्तामिस्रेंधनपूरिते । भ्रमरैः पीडितो यातु यातनां शतहायनम्
अयं तावत्परस्योच्चैर्निंदां कुर्वन्नलज्जितः । अयमप्यशृणोत्कर्णौ प्रेरयन्बहुशस्तु ताम्
तस्मादिमावंधकूपे पतितौ दुःखदुःखितौ । अयं मित्रध्रुगुद्विग्नः पच्यते रौरवे भृशम्
तस्मादेतान्पापभोगान्कारयित्वा विमोचये । त्वं गच्छ नरशार्दूल पुण्यराशिविधायकः
जाबालिरुवाच। एवं स निर्दिशञ्जीवांस्तूष्णीमासाघकारिणः । प्रोवाच रामभक्तोऽसौ करुणापूरितेक्षणः
जनक उवाच। कथं निरयनिर्मुक्तिर्जीवानां दुःखिनां भवेत् । तदाशु कथय त्वं वै यत्कृत्वा सुखमाप्नुयुः
धर्म उवाच। नैभिराराधितो विष्णुर्नैभिस्तस्य कथाः श्रुताः । कथं निरयनिर्मुक्तिर्भवेद्वै पापकारिणाम्
यदि त्वं मोचयस्येतान्महापापकरानपि । तर्ह्यर्पय महाराज पुण्यं तत्कथयामि यत्
एकदा प्रातरुत्थाय शुद्धभावेन चेतसा । ध्यातः श्रीरघुनाथोऽसौ महापापहराभिधः
रामरामेति यच्चोक्तं त्वया शुद्धेन चेतसा । तत्पुण्यमर्पयैतेभ्यो येन स्यान्निरयाच्च्युतिः
जाबालिरुवाच। एतच्छ्रुत्वा वचस्तस्य धर्मराजस्य धीमतः । पुण्यं ददौ महाराज आजन्मसमुपार्जितम्
यदा जन्मकृतैः पुण्यै रघुनाथार्चनोद्भवैः । एतेषां निरयान्मुक्तिर्भवत्वत्र मनोरमा
एवं कथयतस्तस्य जीवा निरयसंस्थिताः । तत्क्षणान्निरयान्मुक्ता जाता दिव्यवपुर्धराः
ऊचुस्ते जनकं राजंस्त्वत्प्रसादाद्वयं क्षणात् । दुःखदान्निरयान्मुक्ता यास्यामः परमं पदम्
तान्दृष्ट्वा सूर्यसंकाशान्नरान्निरयनिःसृतान् । तुतोष चित्ते सुभृशं सर्वभूतदयापरः
ते सर्वे प्रययुर्लोकं दिवं देवैरलंकृतम् । जनकं तु प्रशंसंतो महाराजं दयानिधिम्
जाबालिरुवाच। अथ तेषु प्रयातेषु नरकस्थेषु वै नृषु । राजा पप्रच्छ कीनाशं सर्वधर्मविदांवरम्
राजोवाच। धर्मराज त्वया प्रोक्तं यत्पातककरा नराः । आयांति तव संस्थानं न च धर्मकथारताः
मदागमनमत्राभूत्केनपापेन धार्मिक । तद्वै कथय सर्वं मे पापकारणमादितः
इति श्रुत्वा तु तद्वाक्यं धर्मराजः परंतप । कथयामास तस्यैवं यमपुर्यागमं तदा