अपत्यप्राप्तिकामस्य संत्युपायास्त्रयः प्रभो । विष्णोः प्रसादो गोश्चापि शिवस्याप्यथवा पुनः
तस्मात्त्वं कुरु वै पूजां धेनोर्देवतनोर्नृप । यस्याः पुच्छे मुखे शृंगे पृष्ठे देवाः प्रतिष्ठिताः
सा तुष्टा दास्यति क्षिप्रं वांछितं धर्मसंयुतम् । एवं विदित्वा गोपूजां विधेहि त्वमृतंभर
यो वै नित्यं पूजयति गां गेहे यवसादिभिः । तस्य देवाश्च पितरो नित्यं तृप्ता भवंति हि
यो वै गवाह्निकं दद्यान्नियमेन शुभव्रतः । तेन सत्येन तस्य स्युः सर्वे पूर्णा मनोरथाः
तृषिता गौर्गृहे बद्धा गेहे कन्या रजस्वला । देवता च सनिर्माल्या हंति पुण्यं पुराकृतम्
यो वै गां प्रतिषिद्ध्येत चरंतीं स्वं तृणं नरः । तस्य पूर्वे च पितरः कंपंते पतनोन्मुखाः
यो वै यष्ट्या ताडयति धेनुं मर्त्यो विमूढधीः । धर्मराजस्य नगरं स याति करवर्जितः
यो वै दंशान्वारयति तस्य पूर्वे ह्यधोगताः । नृत्यंति मत्सुतो ह्यस्मांस्तारयिष्यति भाग्यवान्
अत्रैवोदाहरंतीममितिहासं पुरातनम् । जनकस्य पुरावृत्तं धर्मराजपुरेऽद्भुतम्
एकदा जनको राजा योगेनासून्समत्यजत् । तदा विमानं संप्राप्तं किंकिणीजालभूषितम्
तदारुह्य गतो राजा सेवकैरूढदेहवान् । मार्गे जगाम धर्मस्य संयमिन्याः पुरोंऽतिके
तदा नरककोटीषु पीड्यंते पापकारिणः । जनकस्यांगपवनं प्राप्य सौख्यं प्रपेदिरे
निरये दाहजापीडा जातैषां सुखकारिणी । महादुःखं तदा नष्टं जनकस्यांगवायुना
तदा तं निर्गतं दृष्ट्वा जंतवः पापपीडिताः । अत्यंतं चुक्रुशुर्भीतास्तद्वियोगमनिच्छवः
ऊचुस्ते करुणां वाचं मा गच्छ सुकृतिन्नितः । त्वदंगवायुसंस्पर्शात्सुखिनः स्यामपीडिताः
इति वाक्यं समाकर्ण्य राजा परमधार्मिकः । मानसे चिंतयामास करुणापूरपूरितः
चेन्मत्तः प्राणिनां सौख्यं भवेदिह तदा पुनः । अत्रैव च पुरे स्थास्ये स्वर्ग एष मनोरमः
एवं कृत्वा नृपस्तस्थौ तत्रैव निरयाग्रतः । विदधत्प्राणिनां सौख्यमनुकंपितमानसः
तत्र धर्मस्तु संप्राप्तो निरयद्वारि दुःखदे । कारयन्यातनास्तीव्रा नानापातककारिणाम्
तदा ददर्श राजानं जनकं द्वारिसंस्थितम् । विमानेन महापुण्यकारिणं दययायुतम्
तमुवाच प्रेतपतिर्जनकं सहसन्गिरा । राजन्कुतस्त्वं संप्राप्तः सर्वधर्मशिरोमणिः
एतत्स्थानं पातकिनां दुष्टानां प्राणघातिनाम् । नायांति पुरुषा भूप त्वादृशाः पुण्यकारिणः
अत्रायांति नरास्ते वै ये परद्रोहतत्पराः । परापवादनिरताः परद्रव्यपरायणाः
यो वै कलत्रं धर्मिष्ठं निजसेवापरायणम् । अपराधादृते जह्यात्सनरोऽत्र समाव्रजेत्
मित्रं वञ्चयते यस्तु धनलोभेन लोभितः । आगत्यात्र नरः पीडां मत्तः प्राप्नोति दारुणाम्
यो रामं मनसा वाचा कर्मणा दंभतोऽपि वा । द्वेषाद्वाचोपहासाद्वा न स्मरत्येव मूढधीः
तं बध्नामि पुनस्त्वेषु निक्षिप्य श्रपयामि च । यैः स्मृतो न रमानाथो नरकक्लेशवारकः
तावत्पापं मनुष्याणामंगेषु नृप तिष्ठति । यावद्रामं न रसना गृणाति कलि दुर्मतेः
महापापकरा राजन्ये भवंति महामते । तानानयंति मद्भृत्यास्त्वादृशान्द्रष्टुमक्षमाः