भवान्सज्जो भवत्वद्य हयस्यानुगमं प्रति । सन्नद्धः कवची खड्गी गजाश्वरथसंयुतः
इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महीपतिः । पुत्रं राज्येऽभिषेच्यैव शत्रुघ्नेन सुपूजितः
महारथैः परिवृतो निजं पुत्रं रणांगणे । पुष्कलेन हतं भूपः संस्कृत्य विधिपूर्वकम्
क्षणं शुशोच तत्त्वज्ञो लोकदृष्ट्या महारथः । ज्ञानेनानाशयच्छोकं रघुनाथमनुस्मरन्
सज्जीभूतो रथे तिष्ठन्महासैन्यसमावृतः । आजगाम स शत्रुघ्नं महारथिपुरस्कृतः
राजा तमागतं दृष्ट्वा सर्वसैन्यसमन्वितम् । गंतुं चकार धिषणां हयवर्यस्य पालने
सोऽश्वो विमोचितस्तेन भाले पत्रेण चिह्नितः । वामावर्तं भ्रमन्प्रायात्पौर्वाञ्जनपदान्बहून्
तत्रतत्रत्य भूपालैर्महाशूराभिपूजितैः । प्रणतिः क्रियते तस्य न कोपि तमगृह्णत
केचिद्वासांसि चित्राणि केचिद्राज्यं स्वकं महत् । केचिद्धनं जनं केचिदानीय प्रणमंति तम्
शेष उवाच। अथ तेजःपुरं प्राप्तस्तुरगः पत्रशोभितः । यस्यां पालयते राजा प्रजाः सत्येन सत्यवान्
अथ कोटिपरीवारो रघुनाथानुजस्ततः । हयानुगो ययौ तस्य पुरतः पुरधर्षणः
तद्दृष्ट्वा नगरं रम्यं चित्रप्राकारशोभितम् । कांचनैः कलशैस्तत्र परितः प्रतिभासितम्
देवायतनसाहस्रैः सर्वतश्च विराजितम् । यतीनां तु मठास्तत्र शोभंते यतिपूरिताः
वहत्यत्र महादेवी शिखिलोचनमूर्धगा । हंसकारंडवाकीर्णामुनिवृंदनिषेविता
ब्राह्मणानां प्रत्यगारमग्निहोत्रभवः पुनः । धूमस्तत्र पुनात्यंग पातकाप्लुतमानसान्
उवाच सुमतिं राजा शत्रुघ्नः शत्रुतापनः । तत्पुरप्रेक्षणोद्भूतहर्षविस्मितमानसः
शत्रुघ्न उवाच। मंत्रिन्कथय कस्येदं पुरं मे दृष्टिगोचरम् । करोति मानसाह्लादं धर्मेण प्रतिपालितम्
शेष उवाच। इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महीपतेः । उवाच सुमतिः सर्वं यथातथमनुद्धतम्
सुमतिरुवाच। शृणुष्वावहितः स्वामिन्वैष्णवस्य कथाः शुभाः । याः श्रुत्वा मुच्यते पापाद्ब्रह्महत्यासमादपि
जीवन्मुक्तो वरीवर्ति रामांघ्र्यंबुजषट्पदः । सत्यवान्यज्ञयज्ञांग ज्ञाता कर्ताऽविता महान्
धेनुं प्रसाद्य बहुभिर्व्रतैर्यं प्राप तत्पिता । ऋतंभराख्यो जगति ख्यातः परमधार्मिकः
गौः प्रसन्ना ददौ पुत्रमनेकगुणसंस्कृतम् । सत्यवंतं सुशोभाढ्यं तं जानीहि नृपोत्तमम्
शत्रुघ्न उवाच। को वा ऋतंभरो राजा किमर्थं धेनुपूजनम् । कथं प्राप्तः सुतस्तस्य वैष्णवो विष्णुसेवकः
सर्वमेतत्समाचक्ष्व वैष्णवस्य कथानकम् । श्रुतं हरति जंतूनां महापातकपर्वतम्
शेष उवाच। इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महार्थकम् । कथयामास विशदं तदुत्पत्तिकथानकम्
ऋतंभरो नरपतिरनपत्यः पुराऽभवत् । कलत्राणि बहून्यस्य न पुत्रं प्राप तेषु वै
तदा जाबालिनामानं मुनिं दैवादुपागतम् । प्रपच्छ कुशलोद्युक्तः सपुत्रोत्पत्तिकारणम्
ऋतंभर उवाच। स्वामिन्वंध्यस्य मे ब्रूहि पुत्रोत्पत्तिकरं वचः । यत्कृत्वा जायतेऽपत्यं मम वंशधरं वरम्
तज्ज्ञात्वा भवतो भव्यं प्रकुर्यां निश्चितं वचः । दानं व्रतं वा तीर्थं वा मखं वा मुनिसत्तम
इति राज्ञोवचः श्रुत्वा जगाद मुनिसत्तमः । सुतोत्पत्तिकरं वाक्यं प्रणतस्य सुतार्थिनः