रज्ज्वा धृतं महावीरैः पूर्वतः पृष्ठतो भटैः । महाशस्त्रास्त्रसंयुक्तैः सर्वशोभासमन्वितैः
सितातपत्रमस्योच्चैर्भाति मूर्धनि वाजिनः । सुचामरद्वयं यस्य ध्रियते पुरतो मुहुः
कृष्णागर्वादिधूपैश्च धूपितं वायुवेगिनम् । राज्ञः पुरो निनायाश्वं हयमेधस्य सत्क्रतोः
तमानीतं हयं दृष्ट्वा रत्नमालाविभूषितम् । मनोजवं कामरूपं जहर्ष मतिमान्नृपः
जगाम पद्भ्यां शत्रुघ्नं राजचिह्नाद्यलंकृतः । स्वपुत्रपौत्रैः संयुक्तो राजा परमधार्मिकः
ययौ कर्तुं धनानां स सद्व्ययं चलगामिनाम् । एतद्विनश्वरं मत्वा दुःखदं सक्तचेतसाम्
शत्रुघ्नं स ददर्शाथ सितच्छत्रेण शोभितम् । चामरैर्वीज्यमानञ्च सेवकैः पुरतः स्थितैः
सुमतिं परिपृच्छंतं रामचंद्रकथानकम् । भयवार्ताविनिर्मुक्तं वीरशोभास्वलंकृतम्
वीरैः कोटिभिराकीर्णं वाजिपालनकांक्षिभिः । वानराणां सहस्रैश्च समंतात्परिवारितम्
दृष्ट्वा शत्रुघ्नचरणौ प्रणनाम सपुत्रकः । धन्योऽहमिति संहृष्टो वदन्रामैकमानसः
शत्रुघ्नस्तं प्रणयिनं दृष्ट्वा राजानमुद्भटम् । उत्थायासनतः सर्वैर्भटैर्दोर्भ्यां स सस्वजे
दृढं संपूज्य राजा तं शत्रुघ्नं परवीरहा । उवाच हर्षमापन्नो गद्गदस्वरया गिरा
सुबाहुरुवाच। अद्य धन्योस्मि ससुतः सकुटुंबः सवाहनः । यद्युष्मच्चरणौ द्रक्ष्ये नृपकोटिभिरीडितौ
अज्ञानिना सुतेनायं गृहीतो वाजिनां वरः । दमनेनानयं त्वस्य क्षमस्व करुणानिधे
न जानाति रघूत्तंसं सर्वदेवाधिदैवतम् । लीलया विश्वस्रष्टारं हंतारमपि पालकम्
इदं राज्यं समृद्धांगं समृद्धबलवाहनम् । इमे कोशा धनैः पूर्णा इमे पुत्रा इमे वयम्
सर्वे वयं रामनाथास्त्वदाज्ञा प्रतिपालकाः । गृहाण सर्वं सफलं न मेऽस्ति क्वचिदुन्मतम्
क्वासौ हनूमान्रामस्य चरणांभोजषट्पदः । यत्प्रसादादहं प्राप्स्ये राजराजस्य दर्शनम्
साधूनां संगमे किं किं प्राप्यते न महीतले । यत्प्रसादादहं मूढो ब्रह्मशापमतीतरम्
दृष्ट्वा त्वद्य महाराजं पद्मपत्रनिभेक्षणम् । प्राप्स्यामि जन्मनः सर्वं फलं दुर्लभमत्र च
मम तावद्गतं चायुर्बहुरामवियोगिनः । स्वल्पमुर्वरितं तत्र कथं द्रक्ष्ये रघूत्तमम्
मह्यं दर्शयतं रामं यज्ञकर्मविचक्षणम् । यदंघ्रिरजसापूता शिलाभूता मुनिप्रिया
काकः परं पदं प्राप्तो यद्बाणस्पर्शनात्खगः । अनेके यस्य वक्त्राब्जं वीक्ष्य संख्ये पदं गताः
ये त्वस्य रघुनाथस्य नाम गृह्णंति सादराः । ते यांति परमं स्थानं योगिभिर्यद्विचिंत्यते
धन्यायोध्याभवा लोका ये राममुखपंजम् । स्वलोचनपुटैः पीत्वा सुखं यांति महोदयम्
इति संभाष्य नृपतिं वाहं राज्यं धनानि च । सर्वं समर्प्य चावोचत्किंकरोस्मि महीपते
इति वाक्यं समाकर्ण्य राज्ञः परपुरंजयः । प्रत्युवाचेति तं भूपं वाग्मी वाक्यविशारदः
शत्रुघ्न उवाच। कथं राजन्निदं ब्रूषे त्वं वृद्धो मम पूजितः । सर्वं त्वदीयं त्वद्राज्यं दमनो विदधात्वयम्
क्षत्त्रियाणामिदं कृत्यं यत्संग्रामविधायकम् । सर्वं राज्यं धनं चेदं प्रतियातु ममाज्ञया
यथा मे रघुनाथस्तु पूज्यो वाङ्मनसा सदा । तथा त्वमपि मत्पूज्यो भविष्यसि महीपते