चंदनं चंद्रकं चैव वाजिनः सुमनोहराः । हस्तिनस्तु मदोद्धूता रथाः कांचनकूबराः
विचित्रतरवर्णादि नानाभूषणभूषिताः । दास्यः शतसहस्रं च दासाश्च सुमनोरमाः
मणयः सूर्यसंकाशा रत्नानि विविधानि च । मुक्ताफलानि शुभ्राणि गजकुंभभवानि च
विद्रुमाः शतसाहस्रा यद्यद्वस्तुमहोदयम् । तत्सर्वं रामचंद्राय देहि राजन्महामते
सुतानस्मान्किंकरान्नः सर्वानर्पय भूपते । कथं न कुरुषेराजंस्तदधीनं नृपासनम्
शेष उवाच। इति पुत्रवचः श्रुत्वा हर्षितोऽभून्महीपतिः । उवाच च सुतान्वीरान्स्ववाक्यकरणोद्यतान्
राजोवाच। आनयंतु हयं सर्वे सन्नद्धाः शस्त्रपाणयः । नानारथपरीवारास्ततो यास्ये नृपं प्रति
शेष उवाच। इति राज्ञोवचः श्रुत्वा विचित्रो दमनस्तथा । सुकेतुः समरे शूरा जग्मुस्तस्याज्ञयोद्यताः
ते गत्वाथ पुरीं शूरा वाजिनं सुमनोरमम् । सितचामरसंयुक्तं स्वर्णपत्राद्यलंकृतम्
रत्नमालाविभूषाढ्यं चित्रपत्रेणशोभितम् । विचित्रमणिभूषाढ्यं मुक्ताजालस्वलंकृतम्
रज्ज्वा धृतं महावीरैः पूर्वतः पृष्ठतो भटैः । महाशस्त्रास्त्रसंयुक्तैः सर्वशोभासमन्वितैः
सितातपत्रमस्योच्चैर्भाति मूर्धनि वाजिनः । सुचामरद्वयं यस्य ध्रियते पुरतो मुहुः
कृष्णागर्वादिधूपैश्च धूपितं वायुवेगिनम् । राज्ञः पुरो निनायाश्वं हयमेधस्य सत्क्रतोः
तमानीतं हयं दृष्ट्वा रत्नमालाविभूषितम् । मनोजवं कामरूपं जहर्ष मतिमान्नृपः
जगाम पद्भ्यां शत्रुघ्नं राजचिह्नाद्यलंकृतः । स्वपुत्रपौत्रैः संयुक्तो राजा परमधार्मिकः
ययौ कर्तुं धनानां स सद्व्ययं चलगामिनाम् । एतद्विनश्वरं मत्वा दुःखदं सक्तचेतसाम्
शत्रुघ्नं स ददर्शाथ सितच्छत्रेण शोभितम् । चामरैर्वीज्यमानञ्च सेवकैः पुरतः स्थितैः
सुमतिं परिपृच्छंतं रामचंद्रकथानकम् । भयवार्ताविनिर्मुक्तं वीरशोभास्वलंकृतम्
वीरैः कोटिभिराकीर्णं वाजिपालनकांक्षिभिः । वानराणां सहस्रैश्च समंतात्परिवारितम्
दृष्ट्वा शत्रुघ्नचरणौ प्रणनाम सपुत्रकः । धन्योऽहमिति संहृष्टो वदन्रामैकमानसः
शत्रुघ्नस्तं प्रणयिनं दृष्ट्वा राजानमुद्भटम् । उत्थायासनतः सर्वैर्भटैर्दोर्भ्यां स सस्वजे
दृढं संपूज्य राजा तं शत्रुघ्नं परवीरहा । उवाच हर्षमापन्नो गद्गदस्वरया गिरा
सुबाहुरुवाच। अद्य धन्योस्मि ससुतः सकुटुंबः सवाहनः । यद्युष्मच्चरणौ द्रक्ष्ये नृपकोटिभिरीडितौ
अज्ञानिना सुतेनायं गृहीतो वाजिनां वरः । दमनेनानयं त्वस्य क्षमस्व करुणानिधे
न जानाति रघूत्तंसं सर्वदेवाधिदैवतम् । लीलया विश्वस्रष्टारं हंतारमपि पालकम्
इदं राज्यं समृद्धांगं समृद्धबलवाहनम् । इमे कोशा धनैः पूर्णा इमे पुत्रा इमे वयम्
सर्वे वयं रामनाथास्त्वदाज्ञा प्रतिपालकाः । गृहाण सर्वं सफलं न मेऽस्ति क्वचिदुन्मतम्
क्वासौ हनूमान्रामस्य चरणांभोजषट्पदः । यत्प्रसादादहं प्राप्स्ये राजराजस्य दर्शनम्
साधूनां संगमे किं किं प्राप्यते न महीतले । यत्प्रसादादहं मूढो ब्रह्मशापमतीतरम्
दृष्ट्वा त्वद्य महाराजं पद्मपत्रनिभेक्षणम् । प्राप्स्यामि जन्मनः सर्वं फलं दुर्लभमत्र च