एतद्धि ब्रह्मविज्ञानमधुना ज्ञातवानहम् । पुरासितांगशापेन हृतज्ञानधनोऽनघाः
अहं पुरा तीर्थयात्रां गतस्तत्त्वविवित्सया । तत्रानेके मया दृष्टा मुनयो धर्मवित्तमाः
असितांगं मुनिमहं गतवाञ्ज्ञातुमिच्छया । तदा प्रोवाच मां विप्रः कृपां कृत्वा ममोपरि
योऽसावयोध्याधिपतिः स परब्रह्मशब्दितः । तस्य या जानकी देवी साक्षात्सा चिन्मयी स्मृता
एनं तु योगिनः साक्षादुपासते यमादिभिः । दुस्तरा पारसंसारवारिधिं संतितीर्षवः
स्मृतमात्रो महापापहारी स गरुडध्वजः । य एनं सेवते विद्वान्स संसारं तरिष्यति
तदाहमहसं विप्रं कोऽयं रामस्तु मानुषः । केयं सा जानकी देवी हर्षशोकसमाकुला
अजन्मनः कथं जन्म अकर्तुः कृत्यमत्र किम् । जन्मदुःखजरातीतं कथयस्व मुने मम
इत्युक्तवंतं मां क्रुद्धः शशाप स मुनीश्वरः । अज्ञात्वा तत्स्वरूपं त्वं प्रतिब्रूषे ममाधम
एनं निंदसि रामं त्वं मानुषोऽयमिदं हसन् । तस्मात्त्वं तत्त्वसंमूढो भविष्यस्युदरंभरिः
तदाहं तस्य चरणावगृह्णं सदया युतः । दृष्ट्वा मे विनयं मां तु प्रावोचत्करुणानिधिः
त्वं रामस्य मखे विघ्नं करिष्यसि यदा नृप । तदा हनूमानंघ्रिं त्वां ताडयिष्यति वेगतः
तदा त्वं ज्ञास्यसे राजन्नान्यथा स्वमनीषया । पुराहमुक्तस्तेनैवं तद्दृष्टमधुना मया
यदा मां हनुमान्क्रुद्धस्ताडयामास वक्षसि । तदाऽदर्शं रमानाथं पूर्णब्रह्मस्वरूपिणम्
तस्मादश्वं तु शोभाढ्यमानयंतु महाबलाः । धनानि चैव वासांसि राज्यं चेदं समर्पये
रामं दृष्ट्वा कृतार्थः स्यामहं यज्ञेति पुण्यदे । आनयंतु हयं मह्यं रोचते तु तदर्पणम्
शेष उवाच। ते तु तातवचः श्रुत्वा हर्षिताः संप्रहारिणः । तथेत्यूचुर्महाराजं रामदर्शनलालसम्
पुत्रा ऊचुः। राजन्भवत्पदांभोजान्नान्यं जानीमहे वयम् । यत्तव स्वांततो जातं तद्भवत्वद्य वेगतः
अश्वोऽयं नीयतां तत्र सितचामरभूषितः । रत्नमालातिशोभाढ्यश्चंदनादिकचर्चितः
राज्यमाज्ञाफलं स्वामिन्कोशा बहुसमृद्धयः । वासांसि सुमहार्हाणि सूक्ष्माणि सुगुणानि च
चंदनं चंद्रकं चैव वाजिनः सुमनोहराः । हस्तिनस्तु मदोद्धूता रथाः कांचनकूबराः
विचित्रतरवर्णादि नानाभूषणभूषिताः । दास्यः शतसहस्रं च दासाश्च सुमनोरमाः
मणयः सूर्यसंकाशा रत्नानि विविधानि च । मुक्ताफलानि शुभ्राणि गजकुंभभवानि च
विद्रुमाः शतसाहस्रा यद्यद्वस्तुमहोदयम् । तत्सर्वं रामचंद्राय देहि राजन्महामते
सुतानस्मान्किंकरान्नः सर्वानर्पय भूपते । कथं न कुरुषेराजंस्तदधीनं नृपासनम्
शेष उवाच। इति पुत्रवचः श्रुत्वा हर्षितोऽभून्महीपतिः । उवाच च सुतान्वीरान्स्ववाक्यकरणोद्यतान्
राजोवाच। आनयंतु हयं सर्वे सन्नद्धाः शस्त्रपाणयः । नानारथपरीवारास्ततो यास्ये नृपं प्रति
शेष उवाच। इति राज्ञोवचः श्रुत्वा विचित्रो दमनस्तथा । सुकेतुः समरे शूरा जग्मुस्तस्याज्ञयोद्यताः
ते गत्वाथ पुरीं शूरा वाजिनं सुमनोरमम् । सितचामरसंयुक्तं स्वर्णपत्राद्यलंकृतम्
रत्नमालाविभूषाढ्यं चित्रपत्रेणशोभितम् । विचित्रमणिभूषाढ्यं मुक्ताजालस्वलंकृतम्