इति तद्वाक्यमाकर्ण्य हनूमान्निजगाद तम् । शत्रुघ्नो लवणच्छेत्ता वर्तते सैन्यपालकः
स कथं प्रधने युध्येत्सेवकेऽग्रे स्थिते नृप । मां विजित्य रणे तं च त्वं गंतासि नरर्षभ
इत्युक्तवंतं तरसा विव्याध दशसायकैः । हृदि वानरमत्युग्रं पर्वताग्र्यमिवस्थितम्
सबाणानागतांस्तांश्च गृहीत्वा करसंपुटे । चूर्णयामास तिलशः शितान्वैरिविदारणान्
चूर्णयित्वा शरांस्तांस्तु निनदन्घनगर्जितैः । पुच्छेनावेष्ट्य तस्योच्चै रथं निन्ये महाबलः
तदा तं नृपवर्योऽसावाकाशे स्थित एव सः । लांगूलं ताडयामास शिताग्रैः सायकैर्मुहुः
स ताडितस्तु पुच्छाग्रे शरैः सन्नतपर्वभिः । मुमोच तद्रथं दिव्यं कनकेन विचित्रितम्
स मुक्तस्तेन तरसा शरैस्तीक्ष्णैर्जघान तम् । हनूमंतं कपिवरं रोषसंपूरितेक्षणः
हनूमान्बाणविच्छिन्नः सर्वत्ररुधिराप्लुतः । महारोषं समाधत्त नृपोपरि कपीश्वरः
गृहीत्वा तस्य दंष्ट्राभी रथं हयसमन्वितम् । चूर्णयामस वेगेन तदद्भुतमिवाभवत्
स्वरथं भज्यमानं तु दृष्ट्वा राजा त्वरन्बली । अन्यं रथं समास्थाय युयुधे तं महाबलम्
पुच्छे मुखेऽथोरसि च भुजे चरणयोर्नृपः । जघान शरसंधानकोविदः परमास्त्रवित्
तदा क्रुद्धः कपिवरस्ताडयामास वक्षसि । पादेनोत्प्लुत्य वेगेन राज्ञः सुभटशोभिनः
स पदा प्रहतो भूमौ पपात किल मूर्च्छितः । मुखाद्वमन्नसृक्चोष्णं श्वासपूरप्रवेपितः
तदा प्रकुपितोऽत्यंतं हनूमान्प्रधनांगणे । अश्वान्वीरान्गजांश्चापि चूर्णयामास वेगतः
तदा सुकेतुस्तद्भ्राता तथा लक्ष्मीनिधिर्नृपः । उभावपि सुसन्नद्धौ युद्धाय समुपस्थितौ
राजानं मूर्च्छितं दृष्ट्वा प्रपलाय्य गता नराः । इतस्ततो बाणसंघैः क्षताः पुष्कलवर्षितैः
तद्भज्यमानं स्वबलं वीक्ष्य राजात्मजो बली । दमनः स्तंभयामास सेतुर्वार्धिमिवोच्चलम्
तदा तु मूर्च्छितो राजा स्वप्नमेकं ददर्श ह । रणमध्ये कपिवरप्रपदाघातताडितः
रामचंद्रस्त्वयोध्यायां सरयूतीरमंडपे । ब्राह्मणैर्याज्ञिकश्रेष्ठैर्बहुभिः परिवारितः
तत्र ब्रह्मादयो देवास्तत्र ब्रह्मांडकोटयः । कृतप्राञ्जलयस्तं वै स्तुवंति स्तुतिभिर्मुहुः
रामं श्यामं सुनयनं मृगशृंगपरिग्रहम् । गायंति नारदाद्याश्च वीणोल्लसितपाणयः
नृत्यंत्यप्सरसस्तत्र घृताची मेनकादयः । वेदा मूर्तिधरा भूत्वा उपतिष्ठंति राघवम्
यच्च किंचिद्वस्तुजातं सर्वशोभासमन्वितम् । तस्य दातारमखिलं भक्तानां भोगदायकम्
इत्येवमादिसंपश्यञ्जाग्रत्संज्ञामवाप सः । ब्रह्मशापहतज्ञानः किं दृष्टमिति वै वदन्
उत्थाय प्रययौ पद्भ्यां शत्रुघ्नचरणं प्रति । भृत्यकोटिपरीवारो रथकोटिपरीवृतः
सुकेतुं तु समाहूय विचित्रं दमनं तथा । युद्धं कर्तुं समुद्युक्तान्वारयामास धर्मवित्
उवाच तान्महाराजो धर्मात्मा धर्मसंयुतः । भ्रातःपुत्रौ शृणुत मे वाक्यं धर्मसमन्वितम्
मा युद्धं कुरुत क्षिप्रमनयस्तु महानभूत् । यद्रामचंद्रवाहं त्वमगृह्णाद्दमनोर्ज्जितम्
एष रामः परंब्रह्म कार्यकारणतः परम् । चराचरजगत्स्वामी न मानुषवपुर्धरः