वृतो मेरुरिवाभाति बहुशाखानगान्वितः । दिव्यमाल्यांबरधरो दिव्याभरणभूषितः
तस्थौ नृकेसरीरूपः संहर्त्तुं सर्वदानवान् । तं दृष्ट्वा घोरसंकाशं नरसिंहं महाबलम्
दग्धाक्षिपक्ष्मो दैत्येंद्रो विह्वलांगः पपात ह । प्रह्लादोऽथ तदा दृष्ट्वा नारसिंहोपमं हरिम्
जयशब्देन देवेशं नमश्चक्रे जनार्दनम् । ददर्श तस्य गात्रेषु नृसिंहस्य महात्मनः १०० 6.238.
लोकान्समुद्रा न्सद्वीपान्सुरगंधर्वमानुषान् । अजांडानां सहस्रं तु सटाग्रे तस्य दृश्यते
दृश्यंते तस्य नेत्रेषु सोमसूर्य्यादयस्तथा । कर्णयोरश्विनौ देवौ दिशश्च विदिशस्तथा
ललाटे ब्रह्मरुद्रौ च नभो वायुश्च नासिके । इंद्राग्नी तस्य वक्त्रांतेजिह्वायां तु सरस्वती
दंष्ट्रासु सिंहशार्दूलाः शरभाश्च महोरगाः । कंठे च दृश्यते मेरुः स्कंधेष्वपि महाद्रयः
देवतिर्य्यङ्मनुष्याश्च बाहुष्वपि महात्मनः । नाभौ चास्यांतरिक्षं च पादयोः पृथिवीतथा
रोमस्वोषधयः सर्वाः पादपा नखपंक्तिषु । निःश्वासेषु च वेदाश्च साङ्गोपाङ्गसमन्विताः
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः । सर्वाङ्गेषु प्रदृश्यंते गंधर्वाप्सरसश्च ये
इत्थं विभूतयस्तस्य दृश्यंते परमात्मनः । श्रीवत्सकौस्तुभोरस्कं वनमालाविभूषितम्
शंखचक्रगदाखङ्ग शार्ङ्गाद्यैर्हेतिभिर्युतम् । सर्वोपनिषदामर्थं दृष्ट्वा दैत्येश्वरात्मजः
हर्षाश्रुजलसिक्तांगः प्रणनाम मुहुर्मुहुः । दैत्येंद्रस्तु हरिं दृष्ट्वा क्रोधान्मृत्युवशे स्थितः
योद्धुं खङ्गं समुद्यम्य नृसिंहं तमभिद्रवत् । अथ दैत्यगणाः सर्व्वे लब्धसंज्ञा महाबलाः
स्वान्यायुधानि चादाय हरिं जघ्नुस्त्वरान्विताः । पलालकाण्डानि यथा वह्नौ क्षिप्तान्यनेकशः
तथैव भस्मतां यांति महास्त्राणि हरेस्तनौ । तान्यनीकानि दैत्यानां दृष्ट्वा नरहरिस्तदा
सटैर्ददाह च ज्वालामालाविरचित स्फुटैः । नृकेसरि सटोद्भूतवह्निना दानवा भृशम्
निर्भस्मिता गणाः सर्वे निःशेषं तदभूद्बलम् । प्रह्लादं सानुगं हित्वा भस्मिते वीक्ष्य तद्बले
क्रोधाद्दैत्यपतिः खङ्गमाकृष्याभिप्रपद्यत । खङ्गहस्तं तु दैत्येंद्रं जग्राहैकेन बाहुना
पातयामास देवेशो यथा शाखां महानिलः । गृहीत्वा पतितं भूमौ महाकायं नृकेसरी
स्वोत्संगे स्थापयामास ददर्शासौ मुखं हरेः । विष्णुनिंदाकृतंपापंतथावैष्णवदोषजम्
नृसिंहस्पर्शनादेवनिर्भस्मितमभूत्तदा । अथदैत्येश्वरस्याथमहद्गात्रंनृकेसरी
नखेर्विदारयामासतीक्ष्णैर्वज्रनिभैर्घनैः । सनिर्म्मलात्मादैत्येंद्र पःश्यन्साक्षान्मुखं हरेः
नखनिर्भिन्नहृदयः कृतार्थो विजहावसून् । तद्गात्रं शतधा भित्त्वा नखैस्तीक्ष्णैर्महाहरिः
आकृष्यांत्राणि दीर्घाणि कंठे संसक्तवान्प्रियान् । अथ देवगणाः सर्व्वे मुनयश्च तपोधनाः
ब्रह्मरुद्रौ पुरस्कृत्य शनैः स्तोतुं समाययुः । ते प्रसादयितुं भीता ज्वलंतं विश्वतोमुखम्
मातरं जगतां धात्रीं चिंतयामासुरीश्वरीम् । हिरण्यवर्णां हरिणीं सर्व्वोपद्रवनाशिनीम्
विष्णोर्नित्यानवद्यांगीं ध्यात्वा नारायणीं शुभाम् । देवीसूक्तजपैर्भक्त्या नमश्चक्रुः सनातनीम्
तैश्चिंत्यमाना सा देवी तत्रैवाविरभूत्तदा । चतुर्भुजा विशालाक्षी सर्वाभरणभूषिता