हस्तिनः पत्तयश्चैव रथारूढा भयार्दिताः । शरणं त्वां समायांति तानीक्षस्व महामते
पुत्र त्वया विना सोढुं कथं शक्तो रणांगणे । शत्रुघ्नसायकांस्तीक्ष्णांश्चंडकोदंडनिर्गतान्
अतो मां तु त्वया हीनं को वा पालयितुं क्षमः । यदि त्यक्ष्यसि निद्रा त्वं जयायाहं क्षमस्तदा
इत्थं विलप्य सुभृशं तताड हृदयं स्वकम् । बहुशः पाणिना राजा पुत्रदुःखेन दुःखितः
तदा विचित्र दमनौ स्व स्व स्यंदनसंस्थितौ । पितुश्चरणयोर्नत्वा ऊचतुः समयोचितम्
राजन्नस्मासु जीवत्सु किं दुःखं हृदि तद्वद । वीराणां प्रधने मृत्युर्वांच्छितो जायते महान्
धन्योऽयं बत चित्रांगो यो वीर भुवि शोभते । सकिरीटस्तु संदष्टदंतच्छदयुगः प्रभुः
कथयाशु किमद्यैव कुर्वस्ते कार्यमीप्सितम् । शत्रुघ्नवाहिनीं सर्वां हन्व आवामनाथिनीम्
अद्यैव पुष्कलं भ्रातुर्वधकारिणमाहवे । पातयावो रथाच्छित्त्वा शिरोमुकुटमंडितम्
त्यज शोकं सुदुःखार्तः कथं भासि महामते । आज्ञापयावां मानार्ह कुरु युद्धे मतिं तथा
इति वाक्यं समाकर्ण्य पुत्रयोर्वीरमानिनोः । शोकं त्यक्त्वा महाराजो युद्धाय मतिमादधात्
तावपि प्रतियोद्धारं वांच्छंतौ रणदुर्मदौ । जग्मतुः कटके शत्रोरनंतभटपूरिते
रिपुतापेन दमनो नीलरत्नेन चेतरः । युयुधाते रणे वीरौ प्रावृषीव बलाहकौ
राजा कनकसन्नद्धे रथे मणिविचित्रिते । रत्नकूबरशोभाढ्ये तिष्ठंश्चापधरो बली
ययौ योद्धुं तु शत्रुघ्नं वीरकोटभिरावृतम् । तृणीकुर्वन्महावीरान्धनुर्विद्याविशारदान्
तं योद्धुमागतं दृष्ट्वा सुबाहुं रोषपूरितम् । पुत्रनाशेन कुर्वंतं सर्वसैन्यवधादिकम्
शत्रुघ्नपार्श्वसंचारी हनूमांस्तमुपाद्रवत् । नखायुधो महानादं कुर्वन्मेघ इवाहवे
सुबाहुस्तं हनूमंतमागच्छंतं महारवम् । उवाच प्रहसन्वाक्यं रोषपूरितलोचनः
क्व गतः पुष्कलो हत्वा मत्पुत्रं रणमंडले । पातयाम्यद्य तस्याशु शिरो ज्वलितकुंडलम्
क्व शत्रुघ्नो वाहपालः क्व च रामः कुतो भटाः । प्राणहंतारमायांतं पश्यंतु प्रधने तु माम्
इति तद्वाक्यमाकर्ण्य हनूमान्निजगाद तम् । शत्रुघ्नो लवणच्छेत्ता वर्तते सैन्यपालकः
स कथं प्रधने युध्येत्सेवकेऽग्रे स्थिते नृप । मां विजित्य रणे तं च त्वं गंतासि नरर्षभ
इत्युक्तवंतं तरसा विव्याध दशसायकैः । हृदि वानरमत्युग्रं पर्वताग्र्यमिवस्थितम्
सबाणानागतांस्तांश्च गृहीत्वा करसंपुटे । चूर्णयामास तिलशः शितान्वैरिविदारणान्
चूर्णयित्वा शरांस्तांस्तु निनदन्घनगर्जितैः । पुच्छेनावेष्ट्य तस्योच्चै रथं निन्ये महाबलः
तदा तं नृपवर्योऽसावाकाशे स्थित एव सः । लांगूलं ताडयामास शिताग्रैः सायकैर्मुहुः
स ताडितस्तु पुच्छाग्रे शरैः सन्नतपर्वभिः । मुमोच तद्रथं दिव्यं कनकेन विचित्रितम्
स मुक्तस्तेन तरसा शरैस्तीक्ष्णैर्जघान तम् । हनूमंतं कपिवरं रोषसंपूरितेक्षणः
हनूमान्बाणविच्छिन्नः सर्वत्ररुधिराप्लुतः । महारोषं समाधत्त नृपोपरि कपीश्वरः
गृहीत्वा तस्य दंष्ट्राभी रथं हयसमन्वितम् । चूर्णयामस वेगेन तदद्भुतमिवाभवत्