तदा चित्रांगकः क्रुद्धो भल्लान्पंच समाददे । मुमोच भाले पुत्रस्य भरतस्य महौजसः
तैर्भल्लैराहतः क्रुद्धः शरासनवरे शरम् । दधत्प्रतिज्ञामकरोच्चित्रांगनिधनं प्रति
शृणु वीर मम क्षिप्रं प्रतिज्ञां त्वद्वधाश्रिताम् । तज्ज्ञात्वा सावधानेन योद्धव्यं च त्वयात्र हि
बाणेनानेन चेत्त्वां वै न कुर्यां प्राणवर्जितम् । सतीं संदूष्य वनितां शीलाचारसुशोभिताम्
यो लोकः प्राप्यते लोकैर्यमस्य वशवर्तिभिः । स लोको मम वै भूयात्सत्यं मम प्रतिश्रुतम्
इति श्रेष्ठं वचः श्रुत्वा जहास परवीरहा । उवाच मतिमान्वीरः पुष्कलं वचनं शुभम्
मृत्युर्वै प्राणिनां भाव्यः सर्वत्रैव च सर्वदा । तस्मान्मे निधने दुःखं नास्ति शूरशिरोमणे
प्रतिज्ञा या कृता वीर त्वया वीरत्वशालिना । सा सत्यैव पुनर्मेऽद्य श्रूयतां व्याहृतं महत्
त्वद्बाणं मद्वधोद्युक्तं न च्छिंद्यां यदि चेदहम् । तदा प्रतिज्ञां शृणु मे सर्ववीराभिमानिनः
तीर्थं जिगमिषोर्यो वै कुर्यात्स्वांतविखंडनम् । एकादशीव्रतादन्यज्जानाति व्रतमुच्चकैः
तस्य पापं ममैवास्तु प्रतिज्ञापरिघातिनः । इति वाक्यमुदीर्यैव तूष्णींभूतो धनुर्दधे
तदानेन निषंगात्स्वादुद्धृत्य सायकं वरम् । कथयामास विशदं वाक्यं शत्रुवधावहम्
पुष्कल उवाच। यदि रामांघ्रियुगुलं निष्कापट्येन चेतसा । उपासितं मया तर्हि मम वाक्यमृतं भवेत्
यदि स्वमहिलां भुक्त्वा नान्यां जानामिचेतसा । तेन सत्येन मे वाक्यं सत्यं भवतु संगरे
इति वाक्यमुदीर्याशु बाणं धनुषि संधितम् । कालानलोपमं वीरशिरश्छेदनमाक्षिपत्
तं बाणं मुक्तमालोक्य स तु राजसुतो बली । बाणं शरासने धत्त तीक्ष्णं कालानलोपमम्
तेन बाणेन संछिन्नो बाणः स्ववधउद्यतः । हाहाकारो महानासीच्छिन्ने तस्मिञ्छरे तदा
परार्धं पतितं भूमौ पूर्वार्धं फलसंयुतम् । शिरोधरां चकर्ताशु पद्मनालमिव क्षणात्
तदा भूमौ पतंतं तु दृष्ट्वा तत्तस्यसैनिकाः । हाहाकृत्वा भृशं सर्वे पलायनपरागताः
पृथ्व्यां तन्मस्तकं श्रेष्ठं सकिरीटं सकुंडलम् । शुशुभेऽतीव पतितं चंद्रबिंबं दिवो यथा
तं वीक्ष्य पतितं वीरः पुष्कलो भरतात्मजः । व्यगाहत व्यूहमिमं सर्ववीरैकशोभितम्
शेष उवाच। अथ पुत्रं समालोक्य पतितं व्यसुमुद्धतम् । विललाप भृशं राजा सुतदुःखेन दुःखितः
मूर्ध्नि संताडयामास पाणिभ्यामतिदुःखितः । कम्पमानो भृशं चाश्रूण्यमुञ्चन्नयनाब्जयोः
गृहीत्वा पतितं वक्त्रं चंद्रबिंबमनोरमम् । पुष्कलेषु क्षतासृग्भिः क्लिन्नं कुंडलशोभितम्
कुटिलभ्रूयुगं श्रेष्ठं संदष्टाधरपल्लवम् । स चुंबन्मुखपद्मेन विलपन्निदमब्रवीत्
हा पुत्र वीर कथमुत्सुकचेतसं मां । किं नेक्षसे विशदनेत्रयुगेन शूर । किं मद्विनोदकथयारहितस्त्वमेव । रोषोदधिप्लुतमनाः किल लक्ष्यसे च
वद पुत्र कथं मां त्वं प्रब्रूषे न हसन्पुनः । अमृतैर्मधुरास्वादैर्विनोदयसि पुत्रक
शत्रुघ्नाश्वं गृहाण त्वं सितचामरशोभितम् । स्वर्णपत्रेण शोभाढ्यं त्यज निद्रां महामते
एष प्रतापविशदः प्रतापाग्र्यः परंतपः । धनुर्बिभ्रत्पुरो भाति पुष्कलः परवीरहा
एनं वारय सत्तीक्ष्णैर्बाणैः कोदंडनिर्गतैः । कथं त्वं रणमध्ये वै शेते वीरविमोहितः