एवं प्रयुध्यमानौ तौ बाहुयुद्धं गतौ पुनः । पादे पादं करे पाणिं हृदि हृद्वदने मुखम्
एवं परस्परं श्लिष्टौ परस्परवधैषिणौ । उभावपि पराक्रांतावुभावपि मुमूर्च्छतुः
तद्दृष्ट्वा विस्मयं प्राप्ताः प्रशशंसुः सहस्रशः । धन्यो लक्ष्मीनिधिर्भूपो धन्यो राजानुजो बली
शेष उवाच। चित्रांगः क्रौंचकंठस्थो रथस्थो वीरशोभितः । गाहयामास तत्सैन्यं वाराह इव वारिधिम्
धनुर्विस्फार्य सुदृढं मेघनादनिनादितम् । मुमोच बाणान्निशितान्वैरिकोटिविदाहकान्
तद्बाणभिन्नसर्वांगाः शेरते सुभटा भृशम् । सकिरीटतनुत्राणाः सन्दष्टदशनच्छदाः
एवं प्रवृत्ते संग्रामे ययौ योद्धुं स पुष्कलः । मणिचित्रितमादाय चापं वैरिप्रतापनम्
तयोः संगतयोरूपं दृश्यतेऽतिमनोहरम् । पुरा तारकसंग्रामे स्कंदतारकयोर्यथा
विस्फारयन्धनुः शीघ्रं सव्यसाची तु पुष्कलः । ताडयामास तं क्षिप्रं शरैः सन्नतपर्वभिः
चित्रांगोऽपि रुषाक्रांतः शरासन इषूञ्छितान् । दधद्व्यमुंचद्बहुशो रणमंडलमूर्धनि
नादानं न च संधानं न मोचनमथापि वा । दृष्टं तावेव संदृष्टौ कुंडलीकृतचापिनौ
तदासौ पुष्कलः क्रुद्धः शराणां शतकेन तम् । विव्याध वक्षःस्थलके महायोद्धारमुद्भटम्
चित्रांगस्ताञ्शरान्सर्वांश्चिच्छेद तिलशः क्षणात् । ताडयामास चांगेषु पुष्कलं शितसायकैः
पुष्कलस्तद्रथं दिव्यं भ्रामकास्त्रेण शोभिना । नभसि भ्रामयामास तदद्भुतमिवाभवत्
भ्रांत्वा मुहूर्तमात्रं तु सरथो हयसंयुतः । स्थितिर्लेभेतिकष्टेन संधृतो रणमंडले
स चास्य विक्रमं दृष्ट्वा चित्रांगः कुपितो भृशम् । उवाच पुष्कलं धीमान्सर्वास्त्रेषु विशारदः
चित्रांग उवाच। त्वया साधुकृतं कर्म सुभटैर्युधिसंमतम् । मद्रथो वाजिसंयुक्तो भ्रामितो नभसि क्षणम्
पराक्रमं समीक्षस्व ममापि सुभटेरितम् । आकाशचारी तु भवान्भवत्वमरपूजितः
इत्युक्त्वा स मुमोचास्त्रं रणे परमदारुणम् । धनुषा परमास्त्रज्ञः सर्वधर्मविदुत्तमः
तेन बाणेन संविद्धः खे बभ्राम पतंगवत् । सरथः सहयः संख्ये सध्वजश्च ससारथिः
भ्रांत्वा सरथवर्यस्तु नभसि त्वरयान्वितः । यावत्स्थितिं न लभते तावन्मुक्तोऽपरः शरः
पुनश्च परिबभ्राम रथः सूतसमन्वितः । तत्कर्मवीक्ष्य पुत्रस्य राज्ञो विस्मयमाप सः
कथंचित्स्थितिमप्याप पुष्कलः परवीरहा । रथं जघान बाणैश्च ससूतहयमस्य च
सभग्नस्यंदनो वीरः पुनरन्यं समाश्रितः । सोऽपि भग्नः शरैराशु पुष्कलेन रणांगणे
पुनरन्यं समास्थाय यावदायाति संमुखम् । तावद्बभंज निशितैः सायकैस्तद्रथं पुनः
एवं दश रथा भग्ना नृपतेरात्मजस्य हि । पुष्कलेन तु वीरेण महासंयुगशालिना
तदा चित्रांगकः संख्ये रथे स्थित्वा विचित्रिते । आजगाम ह वेगेन पुष्कलं प्रति योधितुम्
पुष्कलं पंचभिर्बाणैस्ताडयामास संयुगे । तैर्बाणैर्निहतोऽत्यतं विव्यथे भरतात्मजः
सक्रुद्धश्चापमुद्यम्य बाणान्दश शितान्महान् । मुमोच हृदये तस्य स्वर्णपुंखसुशोभितान्
ते बाणाः पपुरेतस्य रुधिरं बहुदारुणाः । पीत्वा पेतुः क्षितौ कूटसाक्षिणः पूर्वजा इव