तमायांतमथालोक्य स्वगदां महतीं दधत् । ययौ तं तरसा हंतुं राजभ्राता बलाद्बलम्
गदां तेन विनिक्षिप्तां स्वकरे धृतवानयम् । तयैव गदया तस्य हृदि जघ्ने महाबलः
स्वगदां तेन वै नीतां दृष्ट्वा लक्ष्मीनिधिर्नृपः । बाहुयुद्धेन तं योद्धुमियेष बलवत्तमम्
तदा राजानुजः क्रुद्धो बाहुभ्यामुपगृह्य तम् । युयुधे सर्वयुद्धस्य ज्ञातावीरेषु सत्तमः
तदा लक्ष्मीनिधिस्तस्य हृदि जघ्ने स्वमुष्टिना । तदा सोपि शिरस्येनं मुष्टिमुद्यम्य चाहनत्
मुष्टिभिर्वज्रसंकाशैस्तलस्फोटैश्च दारुणैः । अन्योन्यं जघ्नतुः क्रुद्धौ संदष्टाधरपल्लवौ
मुष्टी मुष्टि दंता दंति कचा कचि नखा नखि । उभयोरभवद्युद्धं तुमुलं रोमहर्षणम्
तदा प्रकुपितो भ्राता नृपतेश्च रणे नृपम् । गृहीत्वा भ्रामयित्वाथ पातयामास भूतले
लक्ष्मीनिधिः करे गृह्य तं नृपानुजमुच्चकैः । भ्रामयित्वा शतगुणं गजोपस्थे जघान तम्
स तदा पतितो भूमौ संज्ञां प्राप्य क्षणादनु । तथैव भ्रामयामास व्योम्नि वेगेन विक्रमी
एवं प्रयुध्यमानौ तौ बाहुयुद्धं गतौ पुनः । पादे पादं करे पाणिं हृदि हृद्वदने मुखम्
एवं परस्परं श्लिष्टौ परस्परवधैषिणौ । उभावपि पराक्रांतावुभावपि मुमूर्च्छतुः
तद्दृष्ट्वा विस्मयं प्राप्ताः प्रशशंसुः सहस्रशः । धन्यो लक्ष्मीनिधिर्भूपो धन्यो राजानुजो बली
शेष उवाच। चित्रांगः क्रौंचकंठस्थो रथस्थो वीरशोभितः । गाहयामास तत्सैन्यं वाराह इव वारिधिम्
धनुर्विस्फार्य सुदृढं मेघनादनिनादितम् । मुमोच बाणान्निशितान्वैरिकोटिविदाहकान्
तद्बाणभिन्नसर्वांगाः शेरते सुभटा भृशम् । सकिरीटतनुत्राणाः सन्दष्टदशनच्छदाः
एवं प्रवृत्ते संग्रामे ययौ योद्धुं स पुष्कलः । मणिचित्रितमादाय चापं वैरिप्रतापनम्
तयोः संगतयोरूपं दृश्यतेऽतिमनोहरम् । पुरा तारकसंग्रामे स्कंदतारकयोर्यथा
विस्फारयन्धनुः शीघ्रं सव्यसाची तु पुष्कलः । ताडयामास तं क्षिप्रं शरैः सन्नतपर्वभिः
चित्रांगोऽपि रुषाक्रांतः शरासन इषूञ्छितान् । दधद्व्यमुंचद्बहुशो रणमंडलमूर्धनि
नादानं न च संधानं न मोचनमथापि वा । दृष्टं तावेव संदृष्टौ कुंडलीकृतचापिनौ
तदासौ पुष्कलः क्रुद्धः शराणां शतकेन तम् । विव्याध वक्षःस्थलके महायोद्धारमुद्भटम्
चित्रांगस्ताञ्शरान्सर्वांश्चिच्छेद तिलशः क्षणात् । ताडयामास चांगेषु पुष्कलं शितसायकैः
पुष्कलस्तद्रथं दिव्यं भ्रामकास्त्रेण शोभिना । नभसि भ्रामयामास तदद्भुतमिवाभवत्
भ्रांत्वा मुहूर्तमात्रं तु सरथो हयसंयुतः । स्थितिर्लेभेतिकष्टेन संधृतो रणमंडले
स चास्य विक्रमं दृष्ट्वा चित्रांगः कुपितो भृशम् । उवाच पुष्कलं धीमान्सर्वास्त्रेषु विशारदः
चित्रांग उवाच। त्वया साधुकृतं कर्म सुभटैर्युधिसंमतम् । मद्रथो वाजिसंयुक्तो भ्रामितो नभसि क्षणम्
पराक्रमं समीक्षस्व ममापि सुभटेरितम् । आकाशचारी तु भवान्भवत्वमरपूजितः
इत्युक्त्वा स मुमोचास्त्रं रणे परमदारुणम् । धनुषा परमास्त्रज्ञः सर्वधर्मविदुत्तमः
तेन बाणेन संविद्धः खे बभ्राम पतंगवत् । सरथः सहयः संख्ये सध्वजश्च ससारथिः