मुखसंस्थं सुकेतुं तं लक्ष्मीनिधिरुवाच ह । लक्ष्मीनिधिरुवाच। जनकस्य सुतं विद्धि लक्ष्मीनिधिरिति स्मृतम्
सर्वशस्त्रास्त्रकुशलं सर्वयुद्धविशारदम् । मुंचाश्वं रामचंद्रस्य सर्वदानवदंशितुः
नोचेन्मद्बाणनिर्भिन्नो यास्यसे यमसादनम् । इति ब्रुवंतं वीराग्र्यं सुकेतुः सहसा त्वरन्
सज्यं चापं विधायाशु बाणान्मुंचन्स्थिरोऽभवत् । ते बाणाः शितपर्वाणः स्वर्णपुंखाः समंततः
दृश्यंते व्यापिनस्तत्र रणमध्ये सुदुर्भराः । तद्बाणजालं तरसा निहत्य । लक्ष्मीनिधिश्चापमथा ततज्यम् । विधाय तस्योरसि बाणषट्कं । मुमोच तीक्ष्णं शितपर्वशोभितम्
तद्बाणाः सुभुजभ्रातुर्हृदयं संविदार्य च । गतास्ते भुवि दृश्यंते रुधिराक्ता मलीमसाः
तद्बाणभिन्नहृदयः सुकेतुः कोपपूरितः । जघानशरविंशत्या तीक्ष्णया नतपर्वया
उभौ बाणविभिन्नांगावुभौ क्षतजविप्लुतौ । सैनिकैः परिदृश्यंते किंशुकाविव पुष्पितौ
मुंचंतौ बाणकोटीश्च संदधंतौ त्वरा शरान् । न केनापि विलक्ष्येते लघुहस्तौ महाबलौ
कुंडलीकृत सच्चापौ वर्षंतौ बाणधारया । नवांबुदाविव दिवि शक्रनिर्देशकारिणौ
तयोर्बाणा गजान्वाहान्नराञ्छूरान्विमस्तकान् । कुर्वंतः केवलं दृष्टा न च संधानमोक्षयोः
पृथिवी सुभटैः पूर्णा सकिरीटैः सकुंडलैः । धनुर्बाणकरै रोषसंदष्टाधरयुग्मकैः
तयोः प्रयुद्ध्यतोर्दर्पात्सर्वशस्त्रास्त्रवेदिनोः । युद्धं समभवद्घोरं देवविस्मापनं महत्
संमर्दोऽभवदत्यंतं वीरकोटिविदारणः । न केनचित्क्वचिद्दृष्टं शरजालांतरेंऽबरम्
तस्मिंस्तु समये लक्ष्मीनिधिर्वीरोऽरिमर्दनः । बाणांश्चापे समाधत्त वसुसंख्यान्दृढाञ्छितान्
चतुर्भिस्तुरगान्वीरः सुकेतोरनयत्क्षयम् । एकेन ध्वजमत्युग्रं चिच्छेद तरसा हसन्
एकेन सारथेः कायाच्छिरोभूमावपातयत् । एकेन चापं सगुणमच्छिनद्रोषपूरितः
एकेन हृदि विव्याध सुकेतोर्वेगवान्नृपः । तत्कर्माद्भुतमुद्वीक्ष्य वीरा विस्मयमाययुः
सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः । महतीं स गदां धृत्वा योद्घुकामोऽभ्युपेयिवान्
तमायांतं समालक्ष्य गदायुद्धविशारदम् । महत्या गदया युक्तं रथादवततार सः
गदामादाय महतीं सर्वायसविनिर्मिताम् । जातरूपविचित्रांगीं सर्वशोभापुरस्कृताम्
लक्ष्मीनिधिर्भृशं क्रुद्धः सुकेतोर्वक्षसि त्वरन् । ताडयामास हृदये गदां वज्राग्निसन्निभाम्
गदया ताडितो वीरो नाकंपत महामुने । मदोन्मत्तो यथा दंती बालेन स्रग्भिराहतः
उवाच तं स वीराग्र्यो नृपं लक्ष्मीनिधिं तदा । सहस्वैकं प्रहारं मे यदि शूरः परंतप
इत्युक्त्वा ताडयामास ललाटे गदया भृशम् । गदया ताडितो भालेऽसृग्वमन्कुपितो भृशम्
मूर्ध्नि तं ताडयामास गदया कालरूपया । सुकेतुरपि तं स्कंधे ताडयामास धर्मवित्
एवं भृशं प्रकुपितौ गदायुद्धविशारदौ । गदायुद्धं प्रकुर्वाणौ परस्परजयैषिणौ
अन्योन्याघातविमतौ परस्परवधोद्यतौ । न कोपि तत्र हीयेत न को जीयेत संयुगे
मूर्ध्नि भाले तथा स्कंधे हृदि गात्रेषु सर्वतः । रुधिरौघ परिक्लिन्नौ महाबलपराक्रमौ
तदा लक्ष्मीनिधिः क्रुद्धो गदामुद्यम्य वेगवान् । जगाम प्रबलं हंतुं हृदि राजानुजं बली