स गृह्णातु मदीयाद्धि पाणिपद्माच्च वीटकम् । तदा लक्ष्मीनिधिर्वीरो जग्राह क्रौंचभेदने
सर्वशस्त्रास्त्रविद्वीरैर्बहुभिः परिवारितः । उवाच वचनं राजन्यास्येऽहं क्रौंचभेदने
भार्गवः पूर्वमेवासीत्क्रौंचभेत्ता तथा ह्यहम् । तथान्यं वीरमावोचत्कोऽस्य सार्धं गमिष्यति
पुष्कलः पृष्ठतस्तस्य यातुं चक्रे मतिं ततः । रिपुतापो नीलरत्न उग्राश्वो वीरमर्दनः
सर्वे शत्रुघ्नसंदेशाद्ययुस्तत्क्रौंचभेदने । शत्रुघ्नोऽपि रथस्थश्च सर्वायुधधरः परः
पृष्ठतोऽस्य परीयाय बहुभिः सैनिकैर्वृतः । तदा प्रचलितौ दृष्टावन्योन्यबलवारिधी
प्रलयं कर्तुमुद्युक्तौ जगतः सुतरंगिणौ । तदा भेर्यः समाजघ्नुरुभयोः सेनयोर्दृढाः
रणभेर्यः शंखनादाः श्रूयंते तत्र तत्र ह । हेषंते वाजिनस्तत्र गर्जंति द्विरदा भृशम्
हुं हुं कुर्वंति वीराग्र्या नदंति रथनेमयः । तत्र प्रकुपिताः शूराः सुबाहुबलदर्पिताः
छिंधि भिंधीति भाषंतो दृश्यंते बहवो रणे । एवंभूते रणोद्युक्ते सैन्ये शत्रुघ्नवैरिणोः
मुखसंस्थं सुकेतुं तं लक्ष्मीनिधिरुवाच ह । लक्ष्मीनिधिरुवाच। जनकस्य सुतं विद्धि लक्ष्मीनिधिरिति स्मृतम्
सर्वशस्त्रास्त्रकुशलं सर्वयुद्धविशारदम् । मुंचाश्वं रामचंद्रस्य सर्वदानवदंशितुः
नोचेन्मद्बाणनिर्भिन्नो यास्यसे यमसादनम् । इति ब्रुवंतं वीराग्र्यं सुकेतुः सहसा त्वरन्
सज्यं चापं विधायाशु बाणान्मुंचन्स्थिरोऽभवत् । ते बाणाः शितपर्वाणः स्वर्णपुंखाः समंततः
दृश्यंते व्यापिनस्तत्र रणमध्ये सुदुर्भराः । तद्बाणजालं तरसा निहत्य । लक्ष्मीनिधिश्चापमथा ततज्यम् । विधाय तस्योरसि बाणषट्कं । मुमोच तीक्ष्णं शितपर्वशोभितम्
तद्बाणाः सुभुजभ्रातुर्हृदयं संविदार्य च । गतास्ते भुवि दृश्यंते रुधिराक्ता मलीमसाः
तद्बाणभिन्नहृदयः सुकेतुः कोपपूरितः । जघानशरविंशत्या तीक्ष्णया नतपर्वया
उभौ बाणविभिन्नांगावुभौ क्षतजविप्लुतौ । सैनिकैः परिदृश्यंते किंशुकाविव पुष्पितौ
मुंचंतौ बाणकोटीश्च संदधंतौ त्वरा शरान् । न केनापि विलक्ष्येते लघुहस्तौ महाबलौ
कुंडलीकृत सच्चापौ वर्षंतौ बाणधारया । नवांबुदाविव दिवि शक्रनिर्देशकारिणौ
तयोर्बाणा गजान्वाहान्नराञ्छूरान्विमस्तकान् । कुर्वंतः केवलं दृष्टा न च संधानमोक्षयोः
पृथिवी सुभटैः पूर्णा सकिरीटैः सकुंडलैः । धनुर्बाणकरै रोषसंदष्टाधरयुग्मकैः
तयोः प्रयुद्ध्यतोर्दर्पात्सर्वशस्त्रास्त्रवेदिनोः । युद्धं समभवद्घोरं देवविस्मापनं महत्
संमर्दोऽभवदत्यंतं वीरकोटिविदारणः । न केनचित्क्वचिद्दृष्टं शरजालांतरेंऽबरम्
तस्मिंस्तु समये लक्ष्मीनिधिर्वीरोऽरिमर्दनः । बाणांश्चापे समाधत्त वसुसंख्यान्दृढाञ्छितान्
चतुर्भिस्तुरगान्वीरः सुकेतोरनयत्क्षयम् । एकेन ध्वजमत्युग्रं चिच्छेद तरसा हसन्
एकेन सारथेः कायाच्छिरोभूमावपातयत् । एकेन चापं सगुणमच्छिनद्रोषपूरितः
एकेन हृदि विव्याध सुकेतोर्वेगवान्नृपः । तत्कर्माद्भुतमुद्वीक्ष्य वीरा विस्मयमाययुः
सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः । महतीं स गदां धृत्वा योद्घुकामोऽभ्युपेयिवान्
तमायांतं समालक्ष्य गदायुद्धविशारदम् । महत्या गदया युक्तं रथादवततार सः