तस्यानुजो विचित्राख्यो विचित्ररणकोविदः । ययौ रथेन हैमेन भ्रातृदुःखेन पीडितः
अन्ये शूरा महेष्वासाः सर्वशस्त्रास्त्रकोविदाः । ययुर्नृपसमादिष्टाः प्रधनं वीरपूरितम्
राजा सुबाहुः संरोषादागतः प्रधनांगणे । विलोकयामास सुतं मूर्च्छितं शरपीडितम्
रथोपस्थस्थितं मूढं स्वसुतं दमनाभिधम् । वीक्ष्य दुःखं मुहुः प्राप वीजयामास पल्लवैः
जलेन सिक्तः संस्पृष्टो राज्ञा कोमलपाणिना । संज्ञामाप शनैर्वीरो दमनः परमास्त्रवित्
उत्थितः क्व धनुर्मेऽस्ति क्व पुष्कल इतो गतः । संसज्य समरं त्यक्त्वा मद्बाणव्रणपीडितः
इति वाक्यं समाकर्ण्य सुबाहुः पुत्रभाषितम् । परमं हर्षमापेदे परिरभ्य सुतं स्वकम्
दमनो वीक्ष्य जनकं नृपं नम्रशिरोधरः । पपात पादयोर्भक्त्या क्षतदेहोऽस्त्रराजिभिः
स्वसुतं रथसंस्थं तु विधाय नृपतिः पुनः । जगाद सेनाधिपतिं रणकर्मविशारदः
व्यूहं रचय संग्रामे क्रौंचाख्यं रिपुदुर्जयम् । यमाविश्य जये सैन्यं शत्रुघ्नस्य महीपतेः
तद्वाक्यमाकर्ण्य सुबाहुभूपतेः । क्रौंचाख्यसद्व्यूहविशेषमादधात् । यन्नो विशंते सहसा रिपोर्गणा । महाबलाः शस्त्रसमूहधारिणः
मुखे सुकेतुस्तस्यासीद्गले चित्रांगसंज्ञकः । पक्षयो राजपुत्रौ द्वौ पुच्छे राजा प्रतिष्ठितः
मध्ये सैन्यं महत्तस्य चतुरंगैस्तु शोभितम् । कृत्वा न्यवेदयद्राज्ञे क्रौंचव्यूहं विचित्रितम्
राजा दृष्ट्वा सुसन्नद्धं क्रौंचव्यूहं सुनिर्मितम् । रणाय स्वमतिं चक्रे शत्रुघ्नकटके स्थितैः
शेष उवाच। शत्रुघ्नस्तद्बलं दृष्ट्वा भीषणाकृतिमेघवत् । हस्त्यश्वरथपादातैर्बहुभिः परिवारितम्
सुमतिं प्रत्युवाचेदं वचोगंभीरशब्दयुक् । नानावाक्यविचारज्ञैः पंडितैः परिसेवितः
शत्रुघ्न उवाच। सुमते कस्य नगरं प्राप्तो मे हयसत्तमः । बलमेतन्निरीक्षेहं पयोदधितरंगवत्
कस्यैतद्बलमुद्धर्षं चतुरंगसमन्वितम् । पुरतो भाति युद्धाय समुपस्थितमादरात्
एतत्सर्वं समाचक्ष्व यथावत्पृच्छतो मम । यज्ज्ञात्वा युद्धसंस्थायै निर्दिशामि स्वकान्भटान्
इति वाक्यं समाकर्ण्य सुमतिः शुभबुद्धिमान् । उवाच वचनं प्रीतः शत्रुघ्नं वैरितापनम्
सुमतिरुवाच। चक्रांका नगरी राजन्वर्तते सविधे शुभा । यस्यां संति नराः पापरहिता विष्णुभक्तितः
तस्याः पुर्याः पतिरयं सुबाहुर्धर्मवित्तमः । तवायं पुरतो भाति पुत्रपौत्रसमावृतः
स्वदारनिरतो नित्यं परदारपराङ्मुखः । विष्णोः कथास्य कर्णस्थाना परार्थप्रकाशिनी
परस्वं न समादत्ते षष्ठांशादधिकं नृपः । ब्राह्मणा विष्णुभक्त्यैव पूज्यंते तेन धर्मिणा
नित्यं सेवारतो विष्णुपादपद्ममधुव्रतः । एष स्वधर्मनिरतः परधर्मपराङ्मुखः
एतस्य बलतुल्यं हि न वीराणां बलं क्वचित् । पुत्रस्य पतनं श्रुत्वा रोषशोकसमाकुलः
चतुरंगसमेतोऽयं युद्धाय समुपस्थितः । तवापि वीरा बहवो लक्ष्मीनिधिमुखा अमून्
जेष्यंति शस्त्रसंघेन निर्दिशाशु परं हि तान् । शत्रुघ्नस्तद्वचः श्रुत्वा प्रोवाच स्वभटान्वरान्
रणप्राप्तिभवोद्धर्षपूरपूरितमानसान् । क्रौंचव्यूहोऽद्य रचितः सुबाहुपरिसैनिकैः
मुखपक्षस्थिता योधास्तान्को भेत्स्यति शस्त्रवित् । यस्य भेदे निजा शक्तिर्यो वीर विजयोद्यतः