गदताखिलकर्म तस्य वै स कथं चाहरदश्ववर्यकम् । कथयंतु पुनः कियद्बलं बत वीराः कति योद्धुमागताः
अथ शत्रुबलोन्मुखः कथं मम वीरो दमनो रणं व्यधात् । विजयं च विधाय दुर्जयं किल वीरं बत कोऽप्यशातयत्
इत्याकर्ण्य वचो राज्ञः प्रत्यूचुस्तेऽस्य सेवकाः । क्षतजेन परिक्लिन्न गात्रवस्त्रादिधारिणः
राजन्नश्वं समालोक्य पत्रचिह्नाद्यलंकृतम् । ग्राहयामास गर्वेण तृणीकृत्य रघूत्तमम्
ततो हयानुगः प्राप्तः स्वल्पसैन्यसमावृतः । तेन साकमभूद्युद्धं तुमुलं रोमहर्षणम्
तं मूर्च्छितं ततः कृत्वा तव पुत्रः स्वसायकैः । यावत्तिष्ठत्यथायातः शत्रुघ्नः स्वबलैर्वृतः
ततो युद्धं महदभूच्छस्त्रास्त्रपरिबृंहितम् । बहुशो जयमापेदे तव पुत्रो महाबलः
इदानीं तेन मुक्त्वास्त्रं शत्रुघ्नभ्रातृसूनुना । मूर्च्छितः प्रधने राजन्कृतो वीरः सुतस्तव
इति वाक्यं समाकर्ण्य रोषशोकसमन्वितः । स्थगितांग इवासीत्स समुद्र इव पर्वणि
उवाच सेनाधिपतिं रोषप्रस्फुरिताधरः । दन्तैर्दताँल्लिहन्नोष्ठं जिह्वया शोककर्शितः
सेनापते कुरुष्वारान्मम सेनां तु सज्जिताम् । योत्स्ये रामस्य सुभटैर्ममपुत्रोपघातकैः
अद्याहं मम पुत्रस्य दुःखदं निशितैः शरैः । पातयिष्ये यदि ह्येनं रक्षितापि महेश्वरः
सेनापतिरिदं वाक्यं प्रोक्तं सुभुजभूपतेः । निशम्य च तथा कृत्वा सज्जीभूतो भवत्स्वयम्
राज्ञे निवेदयामास ससज्जां चतुरंगिणीम् । सेनां कालबलप्रख्यां हतदुर्जनकोटिकाम्
श्रुत्वा सेनापतेर्वाक्यं सुबाहुः परवीरहा । निर्जगाम ततो यत्र शत्रुघ्नः स्वसुतार्दनः
कुंजरैश्च मदोन्मत्तैर्हयैश्चापि मनोजवैः । रथैश्च सर्वशस्त्रास्त्रपूरितै रिपुजेतृभिः
भूश्चकंपे तदा तत्र सैन्यभारेण भूरिणा । संमर्दः सुमहानासीत्तत्र सैन्ये विसर्पति
राजानं निर्गतं दृष्ट्वा रथेन कनकांगिना । शत्रुघ्नबलमुद्युक्तं सर्ववैरिप्रहारकम्
सुकेतुस्तस्य वै भ्राता गदायुद्धविशारदः । रथेनाश्वा जगामायं सर्वशस्त्रास्त्रपूरितः
चित्रांगस्तु सुतो राज्ञः सर्वयुद्धविचक्षणः । जगाम स्वरथेनाशु शत्रुघ्नबलमुन्मदम्
तस्यानुजो विचित्राख्यो विचित्ररणकोविदः । ययौ रथेन हैमेन भ्रातृदुःखेन पीडितः
अन्ये शूरा महेष्वासाः सर्वशस्त्रास्त्रकोविदाः । ययुर्नृपसमादिष्टाः प्रधनं वीरपूरितम्
राजा सुबाहुः संरोषादागतः प्रधनांगणे । विलोकयामास सुतं मूर्च्छितं शरपीडितम्
रथोपस्थस्थितं मूढं स्वसुतं दमनाभिधम् । वीक्ष्य दुःखं मुहुः प्राप वीजयामास पल्लवैः
जलेन सिक्तः संस्पृष्टो राज्ञा कोमलपाणिना । संज्ञामाप शनैर्वीरो दमनः परमास्त्रवित्
उत्थितः क्व धनुर्मेऽस्ति क्व पुष्कल इतो गतः । संसज्य समरं त्यक्त्वा मद्बाणव्रणपीडितः
इति वाक्यं समाकर्ण्य सुबाहुः पुत्रभाषितम् । परमं हर्षमापेदे परिरभ्य सुतं स्वकम्
दमनो वीक्ष्य जनकं नृपं नम्रशिरोधरः । पपात पादयोर्भक्त्या क्षतदेहोऽस्त्रराजिभिः
स्वसुतं रथसंस्थं तु विधाय नृपतिः पुनः । जगाद सेनाधिपतिं रणकर्मविशारदः
व्यूहं रचय संग्रामे क्रौंचाख्यं रिपुदुर्जयम् । यमाविश्य जये सैन्यं शत्रुघ्नस्य महीपतेः