तद्विक्रांतं समालोक्य पुष्कलः परवीरहा । शराणां छायया व्याप्तं रणमंडलमीक्ष्य च
शरासने समाधत्त बाणं वह्न्यभिमंत्रितम् । आचम्य सम्यग्विधिवन्मोचयामास सायकम्
ततोऽग्निप्रादुरभवत्तत्र संग्राममूर्धनि । ज्वालाभिर्विलिहन्व्योम प्रलयाग्निरिवोत्थितः
ततोऽस्य सैन्यं निर्दग्धं त्रासं प्राप्तं रणांगणे । पलायनपरं जातं वह्निज्वालाभिपीडितम्
छत्राणि तु प्रदग्धानि चंद्राकाराणि धन्विनाम् । दृश्यंते जातरूपाभ कांतिधारीणि तत्र ह
हया दग्धाः पलायंते केसरेषु च वैरिणाम् । रथा अपि गता दाहं सुकूबरसमन्विताः
मणिमाणिक्यरत्नानि वहंतः करभास्ततः । पलायंते दहनभू ज्वालामालाभिपीडिताः
कुत्रचिद्दंतिनो नष्टाः कुत्रचिद्धयसादिनः । कुत्रचित्पत्तयो नष्टा वह्निदग्धकलेवराः
शराः सर्वे नृपसुतप्रमुक्ताः प्रलयं गताः । आशुशुक्षणिकीलाभिर्भस्मीभूताः समंततः
तदा स्वसैन्ये दग्धे च दमनो रोषपूरितः । सर्वास्त्रवित्तच्छांत्यर्थं वारुणास्त्रमथा ददे
वारुणं वह्निशांत्यर्थं मुक्तं तेन महीभृता । आप्लावयद्बलं तस्य रथवाजिसमाकुलम्
रथा विप्लावितास्तोये दृश्यंते परिपंथिनाम् । गजाश्चापि परिप्लुष्टाः स्वीयाः शांतिमुपागताः
वह्निश्च शांतिमगमदग्न्यस्त्र परिमोचितः । शांतिमाप बलं स्वीयं वह्निज्वालाभिपीडितम्
कंपिताः शीततोयेन सीत्कुर्वंति च वैरिणः । करकावृष्टिभिः क्षिप्ता वायुना च प्रपीडिताः
तदा स्वबलमालोक्य तोयपूरेण पीडितम् । कंपितं क्षुभितं नष्टं वारुणेन विनिर्हृतम्
तदातिकोपताम्राक्षः पुष्कलो भरतात्मजः । वायव्यास्त्रं समाधत्त धनुष्येकं महाशरम्
ततो वायुर्महानासीद्वायव्यास्त्रप्रचोदितः । नाशयामास वेगेन घनानीकमुपस्थितम्
वायुना स्फालिता नागाः परस्परसमाहताः । अश्वाश्च संहतान्योन्यं स्वस्वारोहसमन्विताः
नराः प्रभंजनोद्धूता मुक्तकेशा निरोजसः । पतंतोऽत्र समीक्ष्यंते वेताला इव भूगताः
वायुना स्वबलं सर्वं परिभूतं विलोक्य सः । राजपुत्रः पर्वतास्त्रं धनुष्येवं समादधे
तदा तु पर्वताः पेतुर्मस्तकोपरि युध्यताम् । वायुः संच्छादितस्तैस्तु न प्रचक्राम कुत्रचित्
पुष्कलो वज्रसंज्ञं तु समाधत्त शरासने । वज्रेण कृत्तास्ते सर्वे जाताश्च तिलशः क्षणात्
वज्रं नगान्रजः शेषान्कृत्वा बाणाभिमंत्रितम् । राजपुत्रोरसि प्रोच्चैः पपात स्वनवद्भृशम्
सत्वाकुलितचेतस्को हृदि विद्धः क्षतो भृशम् । विव्यथे बलवान्वीरः कश्मलं परमाप सः
तं वै कश्मलितं दृष्ट्वा सारथिर्नयकोविदः । अपोवाह रणात्तस्मात्क्रोशमात्रं नरेंद्रजम्
ततो योधा राजसूनोः प्रणष्टाः प्रपलायिताः । गत्वा पुरीं समाचख्युः कश्मलस्थं नृपात्मजम्
पुष्कलो जयमाप्यैवं रणमूर्धनि धर्मवित् । न प्रहर्तुं पुनः शक्तो रघुनाथवचः स्मरन्
ततो दुंदुभिनिर्घोषो जयशब्दो महानभूत् । साधुसाध्विति वाचश्च प्रावर्तंत मनोहराः
हर्षं प्राप स शत्रुघ्नो जयिनं वीक्ष्य पुष्कलम् । प्रशशंस सुमत्यादि मंत्रिभिः परिवारितः
शेष उवाच। अथ वीक्ष्य भटान्निजान्नृपो रुधिरौघेण परिप्लुतांगकान् । सुखमाप न वै शुशोच तान्परिपप्रच्छ सुतस्य चेष्टितम्