पुनः पुनस्तान्पप्रच्छ केनाश्वो नीयते मम । प्रतापाग्र्यः केन जितः सर्वशूरशिरोमणिः
सेवकास्ते तदा प्रोचुर्दमनोनाम शत्रुहन् । सुबाहुजः प्रतापाग्र्यं जितवान्हयमाहरत्
इति श्रुत्वा हयं नीतं दमनेन स्ववैरिणा । आजगाम स वेगेन यत्राभूद्रणमंडलम्
तत्रापश्यत्स शत्रुघ्नो गजान्दीर्णकपोलकान् । पर्वतानिव रक्तोदे मज्जमानान्मदोद्धतान्
हयास्तत्र निजारोहकर्तृभिः सहिताः क्षताः । मृता वीरेण ददृशे शत्रुघ्नेन सुकोपिना
नरान्रथान्गजान्भग्नान्वीक्षमाणः स शत्रुहा । अतीव चुक्रुधे यद्वत्प्रलये प्रलयार्णवः
पुरतो दमनं वीक्ष्य हयनेतारमुद्भटम् । प्रतापाग्र्यस्य जेतारं तृणीकृत्य निजं बलम्
तदा राजा प्रत्युवाच योधान्कोपाकुलेक्षणः । कोऽसौ दमन जेताऽत्र सर्वशस्त्रास्त्रधारकः
यो वै राजसुतं वीरं रणकर्मविशारदम् । जेष्यत्यस्त्रेण निर्भीतः सज्जीभूतो भवत्वयम्
इति वाक्यं समाकर्ण्य पुष्कलः परवीरहा । दमनं जेतुमुद्युक्तो जगाद वचनं त्विदम्
स्वामिन्क्वायं दमनकः क्व तेऽपरिमितं बलम् । जेष्येऽहं त्वत्प्रतापेन गच्छाम्येष महामते
सेवके मयि युद्धाय स्थिते कैर्नीयते हयः । रघुनाथप्रतापोऽयं सर्वं कृत्यं करिष्यति
स्वामिञ्छृणु प्रतिज्ञां मे तव मोदप्रदायिनीम् । विजेष्ये दमनं युद्धे रणकर्मविचक्षणम्
रामचंद्रपदांभोजमध्वास्वादवियोगिनाम् । यदघं तु भवेत्तन्मे दमनं न जयेयदि
पुत्रो यो मातृपादान्यत्तीर्थं मत्वा तया सह । विरुद्ध्येत्तत्तमो मह्यं न जयेदमनं यदि
अद्य मद्बाणनिर्भिन्न महोरस्को नृपांगजः । अलंकरोतु प्रधने भूतलं शयनेन हि
शेष उवाच। इति प्रतिज्ञामाकर्ण्य पुष्कलस्य रघूद्वहः । जहर्ष चित्ते तेजस्वी निदिदेश रणं प्रति
आज्ञप्तोऽसौ ययौ सैन्यैर्बहुभिः परिवारितः । यत्रास्ते दमनो राजपुत्रः शूरकुलोद्भवः
दमनोऽपि तमाज्ञाय ह्यागतं रणमंडले । प्रत्युज्जगाम वीराग्र्यः स्वसैन्यपरिवारितः
अन्योन्यं तौ संमिलितौ रथस्थौ रथशोभिनौ । समरे शक्रदैत्यौ किं युद्धार्थं रणमागतौ
उवाच पुष्कलस्तं वै राजपुत्रं महाबलम् । राजपुत्र दमनक मां जानीहि समागतम्
स प्रतिज्ञं तु युद्धाय भरतात्मजमुद्भटम् । पुष्कलेन स्वनाम्ना च लक्षितं विद्धिसत्तम
रघुनाथपदांभोज नित्यसेवामधुव्रतम् । त्वां जेष्ये शस्त्रसंघेनसज्जीभव महामते
इति वाक्यं समाकर्ण्य दमनः परवीरहा । प्रत्युवाच हसन्वाग्मी निर्भयोद्दृष्टविक्रमः
सुबाहुपुत्रं दमनं पितृभक्ति हृताघकम् । विद्धि मामश्वनेतारं शत्रुघ्नस्य महीपतेः
जयो दैवविसृष्टोऽयं यस्य चालंकरिष्यति । स प्राप्नोति निरीक्षस्व बलं मे रणमूर्धनि
इत्युक्त्वा स शरं चापं विधायाकर्णपूरितम् । मुमोच बाणान्निशितान्वैरिप्राणापहारिणः
ते बाणास्त्वाविलीभूताश्छादयामासुरंबरम् । सूर्यभानुप्रभा यत्र बाणच्छायानिवारिता
गजानां कटभित्त्योघे लग्ना सायकसंततिः । अलंकरोति धातूनां रागा इव विचित्रिताः
पतितास्तत्र दृश्यंते नरा वाहा गजा रथाः । शरव्रातेन नृपतेः सुतेन परिताडिताः