ते बाणा राजपुत्रस्य ललाटे परिनिष्ठिताः । विराजंते स्म च मुने दशशाखास्तरोरिव
तेन बाणप्रहारेण विव्यथेन महामनाः । यष्टिकाप्रहतो यद्वत्कुंजरः सप्तवर्षकः
बाणान्धनुषि संधाय मुमोच त्रिशताञ्छुभान् । सुवर्णपुंखरचितान्महाकालानलोपमान्
ते बाणास्तु प्रतापाग्र्य वक्षो भित्त्वा गता ह्यधः । शोणिताक्ता यथा रामचंद्र भक्ति पराङ्मुखाः
प्रतापाग्र्यः प्रकुपितः शरान्मुंचन्सहस्रशः । अकरोद्विरथं सूनुं सुबाहोस्तत्क्षणाद्द्रुतम्
चतुर्भिश्च तुरो वाहान्द्वाभ्यां ध्वजमशातयत् । एकेन सारथेः कायाच्छिरो मह्यामपातयत्
चतुर्भिस्ताडयामास तं सूनुं नृपतेः पुनः । तत्क्षणाच्चापमेकेन गुणयुक्तं तु चिच्छिदे
सोऽन्यरथं समारुह्य हयरत्नसुशोभितम् । धनुः करे समादाय सज्यं चक्रे महामनाः
प्रत्युवाच प्रतापाग्र्यं त्वया विक्रांतमद्भुतम् । पश्येदानीं पराक्रांतिं धनुषो मम सद्भट
एवमुक्त्वा तु दमनो बाणान्दश समाददे । चतुर्भिश्चतुरो वाहान्निनाय यमसादनम्
चतुर्भिस्तिलशः कृत्तो रथश्चक्रसमन्वितः । एकेन हृदि विव्याध बाणेनैकेन सारथिम्
जगर्ज शंखमापूर्य शंखशब्दसमन्वितः । तत्कर्म पूजयामास साधु वीर महाबल
इति विक्रांतमालोक्य प्रतापाग्र्यो रुषान्वितः । अन्यं रथं समास्थाय ययौ योद्धुं नृपात्मजम्
उवाच वीर पश्य त्वं मम विक्रांतमद्भुतम् । इत्युक्त्वाशु मुमोचौघाञ्छराणां शितपर्वणाम्
शराः सर्वत्र दृश्यंते कुंजरेषु हयेषु च । परब्रह्मेव सर्वत्र व्याप्ताश्चांतरगोचराः
तं राजपुत्रं शितबाणकोटिभि -। र्व्याप्तं विधायाशु जगर्ज विक्रमी । संहर्षयन्स्वीयगणान्परान्महान् । कुर्वन्हृदा शून्यतमान्गतासुकान्
स राजपुत्रः शितसायकव्रजैः । संपूर्णमात्मानमवेक्ष्य रोषितः । जग्राह शस्त्राणि दुरंतविक्रमो । धनुश्च धुन्वन्भुजदंडयोर्महान्
चकर्त सर्वाण्यस्त्राणि शस्त्राणि च महाबलः । रोषताम्रेक्षणो मुंचञ्छरान्वैरिविदारिणः
तच्छस्त्रजालं निर्धूय राजपुत्रो जगाद तम् । क्षमस्वैकं प्रहारं मे यदि शूरोसि मारिष
यद्यनेन भवंतं वै रथाच्चेत्पातयामि न । प्रतिज्ञां शृणु मे वीर मम गर्वेण निर्मिताम्
वेदं निंदंति ये मत्ता हेतुवादविचक्षणाः । तेषां पापं ममैवास्तु नरकार्णवमज्जकम्
इत्युक्त्वा बाणमासाद्य कोदंडे कालसन्निभम् । ज्वालामालाकुलं तीक्ष्णं निषंगादुद्धृतं वरम्
स मुक्तो नृपवर्येण हृदि लक्ष्यीकृतः शरः । जगाम तरसा तं वै कालानलसमप्रभः
प्रतापाग्र्यः शरं दृष्ट्वा स्वपातनसमुद्यतम् । बाणान्धनुष्यथाधत्त शरच्छेदायवै शितान्
स बाणः सर्वबाणांस्तांश्छिंदन्मध्यत एव हि । जगाम वै प्रतापाग्र्यहृदयं धैर्यसंयुतम्
संलग्नो हृदि नालीकः प्रविवेश तदंतरम् । राजाकृतप्रहारस्तु पपात धरणीतले
मूर्च्छितं चेतनाहीनं रथोपस्थाद्गतं भुवि । सारथिस्तं समादायापोवाह रणमंडलात्
हाहाकारोमहानासीद्बलं भग्नं गतं ततः । यत्र शत्रुघ्ननामासौ वीरकोटिपरीवृतः
राजात्मजो जयं प्राप्य प्रतापाग्र्यं विजित्य सः । प्रतीक्षां तु चकारास्य शत्रुघ्नस्य च भूपतेः
शेष उवाच। शत्रुघ्नस्तु क्रुधाविष्टो दंतान्दंतैर्विनिष्पिषन् । हस्तौ धुन्वंल्लेलिहानमधरं जिह्वया सकृत्