गजा भिन्ना द्विधा जाता हयाश्च द्विदलीकृताः । अनेकनरमस्तिष्कैर्मेदिनीपूरिता ह्यभूत्
तदा प्रकुपितो राजा प्रतापाग्र्यो महाबलः । स्वसैन्यकदनोद्युक्तं राजपुत्रं समीक्ष्य च
उवाच सारथिं तत्र प्रापयाश्वान्यतो मम । सैन्यस्य कदनासक्तो राजपुत्रो महारथः
अथ वीरशिरोरत्न नमितांघ्रिर्नृपात्मजः । ययौ संमुखमेवास्य प्रतापाग्र्यस्य वीर्यवान्
सारथिः प्रापयामास प्रतापाग्र्यस्य वाजिनः । यत्रासौ दमनो वीरः सर्वशूरशिरोमणिः
गत्वा तमाह्वयामास राजपुत्रं रणोद्यतम् । रथे पुरटनिर्णिक्ते तिष्ठन्कोदंडदंडभृत्
रे राजपुत्र क शिशो त्वया बद्धोऽश्वसत्तमः । न ज्ञातोसि महाराजः सर्ववीरेंद्र सेवितः
यस्य प्रतापं दैत्येंद्रो न शक्तः सोढुमद्भुतम् । तस्य त्वं वाजिनं नीत्वा गतोऽसि पुटभेदनम्
मां जानीहि पुरः प्राप्तं कालरूपं तु वैरिणम् । मुंचाश्वमर्भ गच्छाशु बालक्रीडनकं कुरु
कस्यात्मजस्त्वं कुत्रत्यः कथं नोऽदीर्घदर्शिना । धृतोऽश्वस्त्वथ संजाता घृणा मम शिशो त्वयि
इत्थमाकर्ण्य दमनः स्मितं चक्रे महामनाः । उवाच च प्रतापाग्र्यं तृणीकुर्वंश्च तद्बलम्
दमन उवाच। मया बद्धो बलादश्वो नीतः स्वपुटभेदनम् । नार्पयिष्येऽद्य सप्राणः कुरु युद्धं महाबल
त्वया यदुक्तं बालस्त्वं गत्वा क्रीडनकं कुरु । तन्मे पश्य महाराज क्रीडनं रणमूर्धनि
शेष उवाच। इत्युक्त्वा सगुणं चापं विधाय सुभुजां गजः । शराणां शतमाधत्त प्रतापाग्र्यस्य वक्षसि
संधाय बाणशतकं शंखं दध्मौ प्रतापवान् । तेन शंखनिनादेन कातराणां भयं ह्यभूत्
ताडयामास हृदये बाणानां शतकेन सः । प्रतापाग्र्यः प्रचिच्छेद लघुहस्तः सुपर्वणः
स बाणच्छेदनं दृष्ट्वा कुपितो व्यसृजच्छरान् । कंकपक्षान्वितांस्तीक्ष्णभल्लान्राजात्मजो बली
आकाशे भुवि मध्ये च बाणा ददृशिरेऽञ्चिताः । स्वनामचिह्नितास्तीक्ष्णधारापातसुशोभिताः
शरास्तद्बाहु हृदये लग्ना वह्निकणान्बहून् । सृजंतः कुर्वते सैन्यदाहनं तदभून्महत्
प्रतापाग्र्यः प्रकुपितस्तिष्ठतिष्ठेति च ब्रुवन् । शरेण दशसंख्येन ताडयामास मूर्धनि
ते बाणा राजपुत्रस्य ललाटे परिनिष्ठिताः । विराजंते स्म च मुने दशशाखास्तरोरिव
तेन बाणप्रहारेण विव्यथेन महामनाः । यष्टिकाप्रहतो यद्वत्कुंजरः सप्तवर्षकः
बाणान्धनुषि संधाय मुमोच त्रिशताञ्छुभान् । सुवर्णपुंखरचितान्महाकालानलोपमान्
ते बाणास्तु प्रतापाग्र्य वक्षो भित्त्वा गता ह्यधः । शोणिताक्ता यथा रामचंद्र भक्ति पराङ्मुखाः
प्रतापाग्र्यः प्रकुपितः शरान्मुंचन्सहस्रशः । अकरोद्विरथं सूनुं सुबाहोस्तत्क्षणाद्द्रुतम्
चतुर्भिश्च तुरो वाहान्द्वाभ्यां ध्वजमशातयत् । एकेन सारथेः कायाच्छिरो मह्यामपातयत्
चतुर्भिस्ताडयामास तं सूनुं नृपतेः पुनः । तत्क्षणाच्चापमेकेन गुणयुक्तं तु चिच्छिदे
सोऽन्यरथं समारुह्य हयरत्नसुशोभितम् । धनुः करे समादाय सज्यं चक्रे महामनाः
प्रत्युवाच प्रतापाग्र्यं त्वया विक्रांतमद्भुतम् । पश्येदानीं पराक्रांतिं धनुषो मम सद्भट
एवमुक्त्वा तु दमनो बाणान्दश समाददे । चतुर्भिश्चतुरो वाहान्निनाय यमसादनम्