परिवार्याथ तं जघ्नुर्दंतैः पृथुतरैर्भृशम् । अथ दिग्गजदंताश्च छिन्नमूलाः पतन्भुवि
दंतैर्विनाकृता नागा भयार्ता वै प्रदुद्रुवुः । तान्दृष्ट्वाथ महानागान्दैत्येंद्रः कुपितो बली
प्रज्वाल्य च महावह्निं चिक्षेप सुतमात्मनः । जलशायिप्रियं दृष्ट्वा प्रह्लादं हव्यवाहनः
न ददाह च तं धीरं सुशीतः समभूच्छिखी । अदह्यमानं तं बालं दृष्ट्वा राजा सुविस्मितः
प्रादात्तस्मै विषं घोरं सर्वभूतहितं तदा । तस्य विष्णोः प्रभावाच्च विषमस्यामृतं भवेत्
अर्पणात्तस्य देवस्य विषं चामृतमश्नुते । एवमाद्यैर्वधोपायैर्घोररूपैः सुदारुणैः
मोहयित्वात्मजं राजा तस्यावध्यत्वमीक्ष्य च । ततः साम्ना सुतं प्राह दैत्यराड्विस्मयाकुलः
हिरण्यकशिपुरुवाच- त्वया विष्णोः परत्वं च सम्यगुक्तं ममाग्रतः । व्यापित्वात्सर्वभूतानां विष्णुरित्यभिधीयते
योऽसौ सर्वगतो देवः स एव परमेश्वरः । तस्य सर्वगतत्वं वै प्रत्यक्षं दर्शयस्व मे
ऐश्वर्यशक्तितेजांसि ज्ञानवीर्यबलानि च । परस्य तस्य परमं रूपं गुणविभूतयः
सम्यग्दृष्ट्वा प्रयत्नेन विष्णुं मन्ये दिवौकसाम् । मम प्रतिबलो लोके नास्ति देवेषु कश्चन
ईशानवरदानेन सर्वभूतेष्ववध्यताम् । प्राप्तवान्सर्वभूतानांनदुर्जयत्वं च मानद । ईश्वरत्वं लभेद्विष्णुर्मां जित्वा बलवीर्यतः
रुद्र उवाच- इति तस्य वचः श्रुत्वा प्रह्लादः प्राह विस्मितः । हरेः प्रभावं दैन्यस्य कथयामास सुव्रतः
प्रह्लाद उवाच- योऽसौ नारायणः श्रीमान्परमात्मा सनातनः । वसनात्सर्वभूतेषु वासुदेवः स उच्यते
सर्वस्यापि जगद्धाता विष्णुरित्यभिधीयते । न किंचिदस्मादन्यं तु जगत्स्थावर जंगमम्
सर्वत्र चिदचिद्वस्तु रूपं तस्यैव नान्यथा । त्रिपाद्व्याप्तिः परं व्योम्नि पादव्याप्ति कलाद्भुता
योऽसौ चक्रगदापाणिः पीतवासा जनार्दनः । योगिभिर्दृश्यते भक्त्या नाभक्त्या दृश्यते क्वचित्
द्रष्टुं न शक्यो रोषाच्च मत्सराद्वा जनार्दनः । देवतिर्यङ्मनुष्येषु स्थावरेष्वपि जंतुषु । व्याप्य तिष्ठति सर्व्वेषु क्षुद्रेष्वपि महत्सु च
रुद्र उवाच- इति प्रह्लादवचनं श्रुत्वा दैत्यवरस्तदा । उवाच रोषताम्राक्षो भर्त्सयंश्च सुतं मुहुः
हिरण्यकशिपुरुवाच- असौ सर्वगतो विष्णुरपि चेत्परमः पुमान् । प्रत्ययं दर्शयस्वाद्य बहुभिः किं च लापितैः
महादेव उवाच-। इत्युक्त्वा सहसा दैत्यः प्रासादस्तंभमात्मनः । ताडयामास हस्तेन प्रह्लादमिदमब्रवीत्
हिरण्यकशिपुरुवाच- अस्मिन्दर्शय तं विष्णुं यदि सर्वगतो भवेत् । अन्यथा त्वां वधिष्यामि मिथ्यावाक्यप्रलापिनम्
रुद्र उवाच- इत्युक्त्वा सहसा खङ्गमाकृष्य दितिजेश्वरः । प्रह्लादोरसि चिक्षेप हंतुं खङ्गेन तं रुषा
तस्मिन्क्षणे महाशब्दः स्तंभे संश्रूयते भृशम् । संवर्ताशनिसंरावैः खमिव स्फुटितांतरम्
तेन शब्देन महता दैत्यश्रोत्रविघातिना । सर्वे निपातिता भूमौ छिन्नमूला इव द्रुमाः
बिभ्यंतः संप्लुतं दैत्या मेनिरे वै जगत्त्रयम् । ततः स्तंभे महातेजा निष्क्रांतो वै महाहरिः
चकार स महाघोरं जगत्क्षयनिभं स्वनम् । तेन नादेन महता तारकाः पतिता भुवि
नृसिंहवपुरास्थाय तत्रैवाविरभूद्धरिः । अनेककोटिसूर्य्याग्नि तेजसा स समावृतः
मुखे पंचाननप्रख्यः शरीरे मानुषाकृतिः । दंष्ट्राकरालवदनः स्फुरज्जिह्वाम्बरोद्धतः
ज्वालावलितकेशांतस्तप्तालातेक्षणो विभुः । सहस्रबाहुभिर्दीर्घैः सर्वायुधसमन्वितैः